SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ उद्दीपितदृढमकर-ध्वजदहना वायवः स्फुरन्ति रयात् । मुनिमालातः पङ्कजमालाभ्यो वा परागकणाः ॥५६॥ चारुणि पल्वलवारिणि शरदि सुविकसितसरोरुहश्रेणी । नयनद्वयेन तृप्तिर्न भवत्यवलोकमानानाम् ॥५७॥ मर्त्यगणस्य सुरेभ्योऽलं खलु कामोऽत्र सम्भवति शरदि । बाणं घटमानायां, मदनस्य प्रवर्तमानायाम् ॥५८॥ मदने विरहिजनानां, रुष्टे नाशाय को न खलु तादृक् । तासां वधाय भूतं, फुल्लं शेफालिकाविपिनम् ॥५९॥ भण्डीरमहं वन्दे, यस्मिन् फुल्ले चिरेण मधुपाली । नीलमणिभ्यो भिन्ना, वनलक्ष्मीपृष्ठ इव कबरी ॥६०॥ एति न पथिकः पार्वे, बीजकभूषितवनस्य चैतस्य । गन्धविशेषात् तस्मादपि दूरं पलायते बिभ्यत् ॥६१॥ काञ्चनकमलविद्युद्दीप्तः परमेष्ठिनो जिनाः सर्वे । अय॑न्त एव तस्मिंस्तस्मिन् काले द्रुतं लोकैः ॥६२॥ उद्यानमण्डपेषु, गुर्वतिलोहितमिवाऽऽचरति बिम्बम् । एर्वारुफलं कच्छे, गुर्विव लोहितमिवाऽऽचरति ॥६३॥ कुमुदं हसति प्रवेपते, कासं चन्द्रिकया विकासमायाति । देवस्थले जलेऽपि, प्रेक्षस्वेतस्ततः कामम् ॥६४|| राजन् ! यदि नो हससि, नो विप्लवयसि ततः किमपि भाषे । अमुना सरसा मानसमपि विस्मृतिमानयन् हंसाः ॥६५॥ बहु वर्णितुं न शक्यान्येतानि च लक्षणानि शरदोऽस्याः । चरितानि विस्फुरन्ते, हेमन्त-शिशिरर्तुजातानि ॥६६॥ क्षुभ्यन्ति हि कलकण्ठाः, शुष्यति तेषामनुत्तमः कण्ठः । कुन्दलता दृश्यन्ते, रोलम्बा विस्फुरन्तीह ॥६७॥ इह प्रेक्षध्वमिहत्यं, दृश्यं पश्यत पुनः पुनः कामम् । अन्योन्यस्पर्धादिव, मन्ये फलिनीलताः फुल्लाः ॥६८॥ उपदेशमथाऽऽदेशं, सन्देशं वा विनैव कुत एताः । । गायन्तीह समुदिताः कृष्णेक्षुगोपिकाः मिलिताः ? ॥६९॥ चणकेषु त्वरयामो, नवसर्षपकन्दलीषु पर्याप्तम् । त्वरयामो मूलार्थं, कच्छस्त्रीणामयं समुद्योगः ॥७०॥
SR No.521041
Book TitleNandanvan Kalpataru 2018 11 SrNo 41
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2018
Total Pages90
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy