SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ ताम्बूलम् प्रकृत्या वै यत् प्राप्तमस्ति मङ्गलमद्भुतं तथा । ताम्बूलं तेषु विशिष्टं हि शृङ्गारसाधनं परम् ॥१॥ वेदेषु पुराणेषु पूजनमन्त्रेष्वादितः । वात्स्यायनकामसूत्रे चोल्लेखोऽस्य वर्तते ॥२॥ मलयद्वीपादागतमस्ति वै कथयन्ति केचिज्जनाः । प्रसिद्धं ताम्बूल - चेटिलाई - नागरबेलनामभिः ॥३॥ पूगीफलैर्लवङ्गैश्च श्वेतद्रव्यैश्च संयुतम् । कर्पूरशोभितञ्चैव शृङ्गारे रुचिकरं तथा ॥४॥ बङ्गला-मगही-सांच-कपूरी-देशा-वर्यादिभिः । नामभिस्ताम्बूलं ज्ञेयं ह्याहारस्य च पाचकम् ॥ चरक संहितायां लिखितमस्त्योषधिगुणसमन्वितम् । धर्मस्यैश्वर्यस्य चाऽस्ति वैराग्यस्य च साधकम् ॥ प्रसिद्धं ताम्बूलमासीद् वाराणस्या ह्यादितः । प्रचलनं ताम्बूलस्य वर्मादेशे सिंहले तथा ॥ युद्धस्याऽऽवाहनमभवद् वै प्रेम्णश्च प्रदर्शनम् । ताम्बूलेनाऽभवत् प्रागासीदियञ्च परम्परा ॥ ९ डो. गदाधरः त्रिपाठी पुरानी बैलाई, मआनीपुर (झांसी) - २८४२०४ दूरभाष - ९४५०१ २३७३२
SR No.521041
Book TitleNandanvan Kalpataru 2018 11 SrNo 41
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2018
Total Pages90
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy