________________
काव्यविमर्श:
स्व. आ. विजयधर्मधुरन्धरसूरयः
नमदमररमणिरत्ने, दर्पणविमले मरीचिपरिकीर्णे । मुक्तविकरणोऽप्यर्हन्, बिम्बव्याजादनेकरूपोऽभूत् ॥ १ ॥ काव्यविमर्शं कर्तुं, समुत्सुकोऽस्म्यहमहो रसं वेत्तुम् । अल्पर्द्धिरपि कदाचित्, किं न करोत्यशनमुदितरसम् ॥२॥ रचनं काव्यस्याऽन्यच्चाऽन्यत्तद्रसविमर्शनं सम्यक् । अन्यत् फलप्रसूतिस्तत्सद्रसपरिचयोऽप्यन्यत् ॥३॥ केचन रसवत् काव्यं कथयन्त्यपरे ध्वनिप्रकृष्टं तत् । उत्तमशब्दार्थान्वितमन्येऽन्ये तच्च रमणीयम् ॥४॥ वक्रोक्त्या संवलितं, ललितमतिशयोक्ति लाञ्छितं भव्यम् । एवं काव्यविमर्श, लक्षणकरणे पथो नैकः ॥५॥ अस्माकं तत्सर्वं, सापेक्षतयाऽस्ति सङ्गतं काव्यम् । यस्माद्रुचिर्जनानां, नानाविधतामधिश्रयति ॥६॥ ग्राम्याणां यद्रुचिरं रुचिरं तन्नो नगरनिवासानाम् । नागरिकाणां यत् सद्, ग्राम्याणां तन्न रम्यं स्यात् ॥७॥ सत्यप्येवमनास्था, नैव विधेयाऽत्र काव्यलक्षणके । सहृदयहृदयं कर्षति, यत् तत् काव्यं सदा भाव्यम् ॥८॥ एतादृग् यदि काव्यं कर्तुमभीप्ससि तदा शृणु प्रथमम् । भावं स्पष्टमदुष्टं विधीयतामात्मनीनं च ॥९॥ तद्भावाभिव्यक्त्यै, शब्दनिवेशस्तथा पुरस्क्रियताम् । जनयेद्यथा च बिम्ब, वाचकहृदयेऽर्थबोधकरम् ॥ १० ॥
१०