SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ शब्दानां सम्पत्तिलक्षणशुद्धाऽतुला विधातव्या । अत्यल्पशब्दसम्पत् काव्यं कर्तुं न पुनरीशः ॥११॥ रसगुणदोषादीनां, विशदालङ्काररीतिभेदानाम् । कार्योऽवगमः सम्यग्, यथा भवेत् काव्यमुदितमुदम् ॥१२॥ यद्वर्णनमिष्टं स्यात्तस्य परिचयो यथावदापाद्यः । नो चेद्वक्तव्येऽन्यत्, कथनीयार्थाद्वेद्विरसम् ॥१३॥ उद्देशानुसरणतः, क्रमशो विस्तीर्यते स्वरूपमिह । खलु लिख्यते समूलं, सकलं सज्जनजनानन्दि ॥१४॥ यद्वक्तव्यं काव्ये, तगावः स्पष्टतामथाऽऽनेयः । वोऽस्ति यथा रामस्तथा च तच्चरितमुन्नेयम् ॥१५॥ कीदृक् सोऽभूत्तेन च, किं विहितं यद्धिताय सम्पन्नम् । कस्मिन् समये तस्य, स्थितिरभवत्तदपि निर्णयम् ॥१६॥ नो चेद् यत्तत् काव्ये, यथा तथाऽऽलिख्य रूपयन् विकलः । विरचयतो विघ्नेशं, वानरमाकृतवतस्तुल्यः ॥१७॥ सन्ति शतशः कवीनां, काव्यानि स्व-स्वभावपूर्णानि । श्रीविनयविजयवाचकवरैर्विहितमिन्दुदूतमिव ॥१८॥ वर्णनयोग्यो यः स्यात्तत्सद्वृत्तं निरूप्यमविदुष्टम् । दोषभरैः परिकरितः, काव्ये नो नायकः कार्यः ॥१९॥ काव्यं न केवलान्तः-करणविनोदार्पणेन ललितफलम् । अपि नीति-रीति-सत्स्थिति-बोधनकरणेन पुष्टफलम् ॥२०॥ काव्यानि यानि चित्तं, विदधति कामादिविह्वलं श्रुत्या । काव्यानि नैव तानि, विदूषयन्त्यपि जगल्लोकम् ॥२१॥ क्रियतां तथाऽऽत्मनीनं, काव्यं हृदयङ्गमं यथा प्रभवेत् । भावस्य विस्तरो नो संक्षेपोऽप्यतिविधातव्यः ॥२२॥ माघे शृङ्गारो यद्, विस्तरतामतिशयेन नीतस्तत् । अतिशर्करासमेतं, परमान्नमिवेप्सितं न स्यात् ॥२३॥ अतिसंक्षिप्तं तृप्तिं, जनयति नहि मधुकणमिव मधुरमपि । रामो राजा राज्ञा-माज्ञाप्रज्ञापकः समभूत् ॥२४॥ शोभनभावं ग्रथितुं, शब्दानां सलिवेशनं कार्यम् । प्रतिकृतिकूते यथा ना, सम्यगुपविशति तथैवेदम् ॥२५॥ ११
SR No.521041
Book TitleNandanvan Kalpataru 2018 11 SrNo 41
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2018
Total Pages90
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy