SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ कश्चन धार्मिको जनो भगवन्तं प्रार्थयमान आसीत् - प्रभो ! मम सर्वा अपि दुर्वृत्तीर्गृह्णातु भवान् । भगवतोक्तम् भगवता सह संवादः ततः स उक्तवान् - नैव भोः ! मया ता दुर्वृत्तयो नैव ग्रहीतव्याः किन्तु त्वयैवाऽपसारणीयाः । प्रभो ! मम विकलाङ्गं पुत्रं सकलाङ्गं सुन्दरं च करोतु भवान् । भगवता कथितम् नैव भोः ! तस्याऽऽत्मा तु सुन्दरः सम्पूर्णश्चैव, विकलं तु शरीरमात्रम् । तत्त्वेवमपि क्षणनश्वरमस्ति । ततस्तेन विज्ञप्तिः कृता - प्रभो ! मह्यं धृतिं सहिष्णुतां च प्रददातु । प्रभुः कथितवान् – नहि भोः ! धैर्यं सहिष्णुता चाऽऽत्मपरीक्षया प्रयोगैश्च प्राप्यन्ते ! एते द्वे शिक्षितव्ये स्तो न तु कस्मैचिद्दीयेते । इदानीं स पूर्ण श्रद्धयोक्तवान् - - कल्याणकीर्तिविजयः भगवन् ! करुणानिधान ! मह्यं सुखं ददातु । भगवांस्तूच्चैर्हसितवान् हसन्नेव च कथितवान् मा पुत्र ! मैवम् । अहं तु केवलमाशिषो ददामि । तथा सुखं दुःखं च तु केवलं मनसः कल्पनैव, नाऽन्यत् किञ्चित् । - २४
SR No.521041
Book TitleNandanvan Kalpataru 2018 11 SrNo 41
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2018
Total Pages90
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy