SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ कथा आत्मदीपको भव सा. संवेगरसाश्री प्रत्येक वर्षे कार्तिकामावस्याया दिनेऽस्माकं सम्पूर्णे देशे दीपावल्याः पर्व उत्साहेन आनन्देन च सहाऽऽचर्यते । तस्मिन् दिने गगनेऽन्धकारो भवति । किन्तु पृथ्व्याः सूक्ष्मातिसूक्ष्मः प्रदेशोऽपि दीपश्रेण्या प्रज्ज्वलितो भवति । ततो गाढेऽन्धकारे सत्यपि पृथ्वी राजते । एवमध्यात्मक्षेत्रेऽपि, अस्माकमात्मप्रदेशेषु अज्ञानरूपो गाढोऽन्धकारो ज्ञानस्यैकेनांऽशेनाऽपि दूरीभवति । शनैः शनैरात्मा शुद्धस्वरूपं धारयति । स्वस्वरूपस्य चाऽऽनन्दं चिरकालपर्यन्तमनुभवति । किल भगवान् बुद्धो मृत्युशय्यायां शयित आसीत् । तदा तस्य प्रियः शिष्य आनन्दो बहुव्यथित आसीत् । तस्य विरहस्य कल्पनयैव स विचलितोऽभवत् । दुःखेन व्याकुलीभूय स रोदिति स्म । तं दृष्ट्वा बुद्धोऽपृच्छत् - "वत्स ! किं त्वं रोदिषि?" तदाऽऽनन्दोऽकथयत् - "भवन्तं विना अहं किं करिष्यामि ? सम्प्रति मम शिक्षाऽप्यपूर्णाऽस्ति । मया तु ज्ञानमपि न प्राप्तम् । मह्यं को वा मार्ग, ज्ञानं च दास्यति ? कश्च दिनिर्देशमपि करिष्यति ? इति विचारेणाऽहं खिन्नोऽस्मि" । तच्छ्रुत्वा बुद्धो मनागहसत्, स्नेहेन चाऽकथयत् - "वत्स ! त्वं मा रुदिहि । यावती शिक्षा तेऽर्पणीयाऽऽसीत्, तावतीमहमार्पयम् । अथ चाऽहं तुभ्यं ज्ञानं दातुमसमर्थोऽस्मि । त्वया स्वयं स्वस्य प्रकाशन भवितव्यम् । तवाऽन्तस्तले उदिताया जिज्ञासायाः समाधानमपि स्वयमेव करणीयम् । तद्देव त्वं वास्तविकं ज्ञानं प्राप्स्यसि । 'आत्मदीपको भव' । एवं कुर्वन् यदि चेतनाया एकमंशमप्यमृतरूपं प्राप्स्यसि तदा ते तरी भवसागरस्य पारं प्राप्नुयात्"। निजान्तरशक्तिं सञ्चिनुत । अमावस्यायाश्चाऽन्धकारे ध्रुवतारका इव चकासत । स्वस्य परिचयं कुरुत।
SR No.521041
Book TitleNandanvan Kalpataru 2018 11 SrNo 41
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2018
Total Pages90
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy