SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ (कार्यालये) नियामकः (कर्मचारिणं) भोः ! किमेवं निष्क्रिय उपविष्टोऽस्ति भवान् ? कर्मचारी अहं भवतो निर्देशं समाचरन्नस्मि । नियामकः मया तु भवते न किमपि निर्दिष्टम् । कर्मचारी अत एव निष्क्रियस्तिष्ठामि !! कश्चन भारतीयो जनो जपानदेशं प्राप्तः । तत्रैकस्मिन् समारोहे स बहूनां जापानीयानां मध्ये भारतीयभाषया दीर्घामेकां हास्यकणिकां कथितवान् । तस्यैकेन भाषाद्वयज्ञेन मित्रेण हास्यकणिकाया अनुवादः स्तोकैरेव शब्दैर्जापानीयभाषया जनेभ्यः कथितः । ततो जना बहु हसितवन्तः । एतद् विलोक्य स भारतीयः स्वं मित्रं पृष्टवान् – भवान् मम हास्यकणिकाया अनुवादमियच्छीघ्रमेतावद्भिश्च स्तोकैः शब्दैः कथं कृतवान् ? तेनोक्तं - अहो ! मया तेभ्यः कथितं यन्मे मित्रेण हास्यकणिका प्रस्तुताऽतो भवन्तः सर्वेऽपि हसन्तु – इति !' lo
SR No.521041
Book TitleNandanvan Kalpataru 2018 11 SrNo 41
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2018
Total Pages90
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy