SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ मर्म नर्म कीर्तित्रयी पिता यस्मिन् कस्मिंश्चिदपि व्यवसाये सफलता प्राप्तुं द्वौ गुणावत्यावश्यकौ स्तः - प्रामाणिकता चातुर्य च । पुत्रः प्रामाणिकता नाम किम् ? पिता यदप्यस्माभिः प्रतिपन्नं तत् सर्वथा पालनीयं महत्यामपि च हानावपि न ततो पराङ्मुखीभवितव्यम् । पुत्रः अस्तु, चातुर्यं नाम किम् ? पिता चातुर्यं नाम कदाचिदपि किञ्चिदपि करणीयतया न प्रतिपत्तव्यम् !! सुहृद् (मानसचिकित्सकं) भोः !, स्वयं कोटिसङ्ख्यकजनेष्वद्वितीय - इति मन्वानः स मनोरोगी किञ्चिदिव सज्जो जातो वा ? मानसचिकित्सकः आम्, स शनैः शनैः सज्जो जायमानोऽस्ति । इदानीं स स्वं लक्षसङ्ख्यकजनेष्वद्वितीयं मन्यते !! (मानसचिकित्सालये) मनोरोगी चिकित्सकमहोदय ! भवान् अस्मभ्यं बहु रोचते । चिकित्सकः (हृष्यन्) एवं वा ? परमहं त्विदानीमेवाऽत्राऽऽगतोऽस्मि ननु । मनोरोगी तथाऽपि, भवानस्माकमेवैकतम इति प्रतिभाति !!
SR No.521041
Book TitleNandanvan Kalpataru 2018 11 SrNo 41
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2018
Total Pages90
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy