________________
श्रीमतां पूज्यानां विमलाशयानां विबुधशिरोमणीनां श्रीमद्विजयनन्दनसूरिकुञ्जराणां च तनुलताकुशलोदन्तमभिलषामि ।
अध्ययनविषये मुनिदक्षविजयस्य द्वितीयतरङ्गपरिच्छिन्ना दिनकरी, सुशीलविजयस्य शब्दखण्डपरिच्छिन्ना मुक्तावली चलति ।
शरीरविषये – उपायशतेनाऽपि मम देहगेहं रुधिरविकृतिकृतकण्डूतिव्यन्तरी नोज्झति मनागपि । सुशीलविजयस्य कदाचिद् वामवक्षसि व्यथा स्वरूपं प्रदर्श्याऽन्तर्दधाति, उपचारश्चलति ।
किङ्करार्हं कार्यं धार्यं कृपया कृपारसकूपारैः ।
बाललीलाकल्पलेखलीलयाऽनयाऽविनयलेशमपि क्षमन्तां क्षमाधराः । शिरोनामकलितं कृपादलं
वितरणीयं कृपया ।
वत्सरै वै वैक्रमे वेदनन्दनन्देन्दु (१९९४) मिते आषाढबहुलदले नवम्यां बुधदिनेऽलेखि ॥ (आ. विजयलावण्यसूरिः)
स्याद्वाददर्शनपयोनिधिवृद्धिचन्द्रं, सन्नेमिसूरिगणवन्दितपादपद्मम् ।
सन्नेमिदेहिसुहितोदयपूर्वशैलं
विद्याधनं विबुधनन्दननन्दनाभम् ॥१॥
. नौमि (मुनिदक्षविजय:)
•*.
५५