________________
गीतिका
अवतारयिष्यति शारदा
प्रा. अभिराजराजेन्द्रमिश्रः
लोके यदा रघुनाथसदृशो नृमणिरधुना जायते वाल्मीकिमपि सुकविं कमप्यवतारयिष्यति शारदा ॥१॥ यदि भारते भूयो भवन्ति शकारिविक्रमभूभुजः तत्कीर्तिगायनकालिदासमपि स्मरिष्यति शारदा ॥२॥ चैनं त्रिविष्टपहंसमानसशम्भुगिरिचमरीचयम् तज्जातु निखिलं भारतीयं घोषयिष्यति शारदा ॥३॥ वैभवविलासमहीधरे विलसन्तु कामं भूमयः देशे नु निर्गङ्गे क्षणं स्थास्यति न चेयं शारदा ॥४॥ कुर्वन्तु कामं दिग्जयं तास्ता असंस्कृता भाषाः आकल्पमिह रंस्यति परं सुरभारतीयं शारदा ॥५॥ नैवाऽभिराजो वेत्ति यद्यत्नश्रुताभ्यां सेविता किं किं मया लोकोत्तरं ननु कारयिष्यति शारदा ॥६॥ अरविन्दमणिरसराजराजकुमारशिष्यगणैर्नु तम् अभिनवमहामाहेश्वरं मामपि विधास्यति शारदा ॥७॥ या नैव कथमपि शुष्यति प्लुष्टा विनशने मारवे स्रक्ष्यति मदीयमसीमुखेन सरस्वतीं तां शारदा ॥८॥ सत्कविसुलभसुयशो नु मह्यं प्रददती सा वत्सला मत्काव्यसर्जनया स्वरूपं रूपयिष्यति शारदा ॥९॥
सनराईज विला (समीप वरिष्ठ माध्यमिक विद्यालय),
लोअर समरहिल, शिमला-१७१००५ (हि.प्र.)