SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ अशोकः प्रतिहारिन् ! निःशब्दाया रात्र्या नीरवत्वस्य भञ्जकः कीदृशोऽयं स्वरः ? प्रतिहारी अशोकः प्रतिहारी अशोकः प्रतिहारी महाराज ! कलिङ्गवासिभिर्भवत: सामर्थ्यं न्यूनमाकलितम् । तेषां नृपस्य गर्वोन्मादस्य भुक्तं फलमिदम् । अशोकः कुत्र प्राप्तावावाम् ? प्रतिहारी महाराज ! युद्धभूमिं प्राप्तौ । अशोकः प्रतिहारी प्रतिहारी अशोकः प्रतिहारी महाराज ! ईप्सितं भोजनं प्राप्य हृष्टा श्येन - गृध्रादिपक्षिणः शृगालादयश्चेष्टभोजनदस्य भवतो विजयं वर्धापयन्ति । भवतः खड्गप्रभावेण समग्रं रणाङ्गणं मांसभोजिनां पशुपक्षिणां भोजनालयत्वेन परावृत्तम् । अशोकः प्रतिहारिन् ! कलिङ्गनरेशं मगधस्याऽऽधिपत्यं स्वीकर्तुं नैकधा प्रस्तावं प्रेषितवान् । वारद्वयं सान्धिविग्रहिकाः प्रेषिताः । किन्तु परिणामः ? शून्यम्... । सैनिकाः ! दण्डदीपस्य प्रकाश इतस्तावत् । हं... कुत्राऽस्ति कलिङ्गस्य समुद्रसमं विशालं सैन्यम् ? तत्तु अगस्त्यसदृशस्य सम्राजोऽशोकस्य क्रोधहुताशनेन शोषितम् । मगधस्य महावरोधरूपं कलिङ्ग धराशायिनं दृष्ट्वोत्फुल्लमिव मे मनः । अहो ! सैनिका: ! प्रकाशमत्राऽऽनयन्तु किमिदं पदाहतं मम ? महाराज ! कलिङ्गवासिभिर्भवतः सामर्थ्यं न्यूनं परिमातम् । तेषां नृपो गर्वोन्मत्त स्थितः तस्यैव फलं भुक्तमेतत् । महाराज ! एतत्तु एतत्तु ओह .... हस्ते ओह् ... एष तु कस्यचित् सैनिकस्य विच्छिन्नश्चरणः ... अपि च एष हस्तः, तु मदनफलं बद्धमस्ति । एष तु कश्चिद् नवोद्वाहितो युवा । किं स्यात् तस्य पत्न्याः ? तस्या मनोरथाः ? इममन्तरा तस्याः दशा हे भगवन् ! ... ... *** ... 1 *** महाराज ! किमर्थं व्यथते ? स युवकस्तु वीरगतिं प्राप्नोत् । स तु स्वर्गेऽप्सरसां नृत्यगानादिषु प्रवृत्तः स्यात् । तस्य पत्नी अपि तस्य शिरोऽङ्के निधाय पतिं मेलितुं स्वर्गं प्रस्थिता स्यात् । तस्य मस्तकस्याऽत्राऽनुपस्थितिरपि तदेव सूचयति महाराज ! भवतो वीरतायाः प्रभावः सर्वत्र दृश्यते । एतावन्तो मृताः सैनिकाः, एष गजः, अश्वानां मृतदेहानां पङ्क्तयः, तदुपरि भ्रममाणा इमे गृध्राः, अहो ! कीदृक् हृदयविदारकं दृश्यम् । सैनिका: प्रकाश इतस्तावत्, ३१
SR No.521041
Book TitleNandanvan Kalpataru 2018 11 SrNo 41
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2018
Total Pages90
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy