SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ रङ्गमञ्चः विजेतुर्व्यथा डो. कान्ति गोरः 'कारणः' (समयः रात्र्याः, कालिंगस्य रणभूमेः समीपे अशोकस्य स्कन्धावारः, रङ्गमञ्चस्य वामतः अशोकस्य शिविरं दृश्यते । बहिः प्रतिहारी तिष्ठति । दक्षिणतो युद्धभूमिः । नाट्यारम्भे अशोकस्य शिविरोपरि प्रकाशेऽस्ति । अन्यो भागोऽन्धकारमयः ।) अशोकः (शिविराबहिरागत्य) प्रतिहारिन्, रणभूमेः का स्थितिः ? प्रतिहारी महाराज ! भवतोऽपरिमेय-शौर्य-समक्षं कलिङ्गोऽवनतो जातः । मध्याह्नं यावत् भवत उपस्थिति-गिधीय-सैनिकेषु प्रोत्साहमसिञ्चत् । इदानीं तु कलिङ्गस्याऽवशिष्टः प्रतिकारोऽपि शान्तः । अस्माकं व्रणितानां सैनिकानां शुश्रूषाया व्यवस्था कल्प्यते । रणाङ्गणं नीरवम् । महाराज! वर्षेभ्यो मगधस्य पुरतोऽविजितस्य कलिङ्गस्य पराजयरूपो मनोरथः फलीभूतः । अशोकः दण्डदीपं सज्जं कुरु । अहं रणभूमि द्रष्टुं पराजितानां कलिङ्गवासिनां सत्कारमनुभवितुं समुत्सुकोऽस्मि । प्रतिहारी इत इतो महाराजः । सर्वमुपपन्नमेवाऽस्ति । (रङ्गमञ्चोपरि तथा प्रकाशायोजनं भवेत् यथा शिविरसम्मुखिनी रणभूमिदृश्येत ।) अशोकः अत्यन्तं प्रसन्नोऽस्मि । मागधसैनिकानां विजययात्राया अवरोधकस्य कलिङ्गराजस्य सैन्यस्य दशामवलोकयामि । स गर्वितो राजा येषां समर्पितचित्तानामुपरि विश्वस्त आसीत् तेषां कलिङ्गानां नरवीराणां मृतदेहै: परिपूर्णां रणभूमिं द्रष्टुमिच्छामि । मामकानां मागधवीराणां यशोगाथां प्रत्यक्षं द्रष्टुमिच्छामि । अहो ! कियत् शान्तेयमन्धकारस्य कज्जलमाच्छाद्याऽवस्थिता रात्रिः । प्रतिहारी महाराज ! अशोकस्य पराजितानां शत्रूणां मलिनमुखसमा श्यामला, मागधसैनिकानामप्रतिमशौर्येण प्रभावेण च स्तब्धानां कलिङ्गवासिनां भयाक्रान्तहृदयसमाना । ३०
SR No.521041
Book TitleNandanvan Kalpataru 2018 11 SrNo 41
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2018
Total Pages90
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy