SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ वास्तवं सुखम् स्व. आ. श्रीविजयधर्मधुरन्धरसूरयः अहूँ ध्यात्वा प्रणम्याऽहम् अहूँ स्मृत्वा पुनः पुनः । अर्हन्तं प्रार्थये कामं अर्हलेवार्हतेऽर्हते ॥१॥ प्रार्थना कस्य कर्तव्या ? कर्तव्या केन प्रार्थना ? । प्रार्थनायां निवेद्यं किं ? तदर्थमपि प्रार्थये ॥२॥ शर्मणः प्रार्थना कार्या शर्मार्थिना हि प्रार्थ्यते । प्रार्थनायां निवेद्यं तत् प्रार्थना येन संभवेत् ॥३॥ शर्म किं तदपि ज्ञेयं द्विविधं तत् विभाव्यताम् । बाह्यं तथाऽऽन्तरं शुद्धं बाह्यं पौद्गलिकं मुधा ॥४॥ सुखं बाह्यं परायत्तं दुःखमिश्रं च भगुरम् । काल्पनिकं तथा तल वास्तवमिति गीयते ॥५॥ अनादिकालसंस्कारात् तत्रैव रज्यते जनैः । तदेव चिन्त्यते बाढं तदर्थमेव यत्यते ॥६॥ आन्तरं शर्म वक्तव्यमग्रतस्तदपेक्षया । बाहमिदं भवेद् बाह्यं वोढव्यं भारवन्मुधा ॥७॥ नाऽवाप्यते तदा यस्मिन् काले हि यदपेक्ष्यते । नाऽपेक्ष्यते तदायाति पायत्तं ततश्च तत् ॥८॥ बिन्दुमात्रसुखार्थं यद् दुःखं समनुभूयते । अमितं तत् ततो ज्ञेयं दुःखमिश्रमिदं सदा ॥॥ यत्यते शर्मणे यावत् तावत्कालमपीश्वरम् । नेदं स्थातुं क्षणस्थायि भङ्गुरं क्षणभङ्गुरम् ॥१०॥
SR No.521041
Book TitleNandanvan Kalpataru 2018 11 SrNo 41
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2018
Total Pages90
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy