________________
कायस्त्वक्परिवर्तनमापलो वा विकारमुपपन्नः । बीभत्सः कस्य मनसि, नतरां जनयति जुगुप्सां ही ॥८६॥ अशुचित्वभावनायां, नृपकनिरागापसारणाप्तोक्तौ । मल्लिचरित्रे षण्णां, मित्राणां बोधनावसरे ॥८७॥ एकच्छवं राज्यं, बीभत्सरसस्य दृश्यते तत्र । दृष्ट्या तत्त्वाञ्चितया, बीभत्सं पुद्गलं सकलम् ॥८॥ शान्तरसो रसविदिः, कथितोऽपि सुदुर्लभोऽत्र संसारे । अत एव केचनाऽष्टौ, रसा इति निरूपयन्ति पुनः ॥८९॥ शान्तानां साधूनां, यद् यद् वृत्तं तदत्र शान्तरसे । पोषकमनुसन्धेयं, सदावोद्भावितं हृदये ॥१०॥ रामायणे रसोऽसौ, शान्तः परिपोषितः कविवराणाम् । समयेऽथवा प्रसिद्धः, सतां चरित्रेऽस्ति सर्वत्र ॥१॥ यावल भावुकानां मनः शमाञ्चितमपेतमालिन्यम् । शान्तरसस्य न तावद्वार्ताऽप्यायाति तत्सविधम् ॥१२॥ एकः खलु शान्तरसस्तत्प्रतिबिम्बं परे रसाः सर्वे । दुःखितमपि रसराजः, सुखमनुभावयति सततमसौ ॥१३॥ परमात्मनि शृङ्गारं, प्रसाधयन् परमभेदमाप्नोति । शृङ्गारः स परोऽन्यः, कल्पनया केवलं रम्यः ॥४॥ यद्यभिलषितं हास्यं, तदा स्वचरितं विवेकविकलं किम् । हास्यरं नहि पश्यसि, यत् पमुपहससि संमूढः ॥१५॥ यावल मोहमुक्तस्तावत्त्वं शोकसङ्कुलः सततम् । सर्वेषां करुणरसोदाहरणं भववने भ्रमसि ॥१६॥ रागाद्यास्ते रिपवः, क्रूरास्त्वं शूरतां प्रकटय पराम् । वीररसोऽप्यप्रतिमः, सोत्साहो हन्त तत्र स्यात् ॥१७॥ कालमनन्तं भ्रान्तस्तथापि न श्रान्त आत्मविभ्रान्तः । अद्भुतमन्यत् किमतः, परं समस्तेऽस्ति भुवनेऽस्मिन् ॥८॥ तृणमात्रेऽपि ममत्वं, भयमनुभावयति कर्षितं किञ्चित् । त्वमपि भयानकतां परमनुभावयसि प्रभूतभयः ॥७९॥ क्रोधस्त्व परमसुहृद्, रौद्रं रूपं संजनयति नितराम् । तद् दृष्ट्वा परमपरे, रौद्राकारा भवन्तितराम् ॥१००॥
१६