________________
प्रजाकल्याणमेव कर्तव्यम् । स एव राजधर्मः । इदानीं सत्ताया उपयोगः केवलं प्रजाकल्याणायैव भविष्यति । प्रणामाः, बोधिसत्त्वचरणयोः प्रणामाः । हृदयान्महान् भारोऽपसृतोऽद्य । अधुना एक एव नादः । एक एव स्वरः, जीवमात्रस्य रक्षणं कल्याणं च ।
(पार्श्वसंगीतेन सह समूहगानम्) धम्म सरणं गच्छामि । संघ सरणं गच्छामि । बुद्धं सरणं गच्छामि ।