SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ सत्यप्रसङ्गः एकस्या रात्रेनिंदा - धीरुबहेन-पटेल (गूर्जरमूलम्) __ (सं.) - कल्याणकीर्तिविजयः तस्मिन् काले मुम्बई-महानगरस्य विद्युद्-रेलयात्रिणां मासिकं त्रैमासिकं चाऽनुज्ञापत्रं (Pass) प्राप्यते स्म । यस्मिन् दिनाङ्के तदवधिः पूर्णो भवेत् ततो दिनद्वयाभ्यन्तरे एव यदि तन्नवीक्रियेत (renew) तदा न्यासधनं (deposit) पुनर्न भर्तव्यमिति हि नियम आसीत् । ___अहं सान्ताक्रुझ-विस्तारे निवसामि स्म, एल्फिन्स्टन-महाविद्यालये च पठामि स्माऽतो मत्पाबें चर्चगेटस्थानकात् सान्ताक्रुझस्थानकपर्यन्तमनुज्ञापत्रमासीत् । अहं किल सर्वदा पठन-लेखनादिषु व्यापृता भवामि स्माऽतो यथाकालं विद्यालयशुल्क(Fees) भरणेऽनुज्ञापत्रनवीकरणे च मम सखीनामुत्तरदायित्वमासीत्। बहुशोऽस्मासु एवंविधाः संवादाः प्रचलन्ति स्म - 'अयि धीरो ! भवत्या अनुज्ञापत्रं नवीकृतं वा ?' 'नैव भोः !' 'किमर्थम् ?' 'भवत्या नैव स्मारितं ननु !' 'अतो ममैव दोषोऽत्र खलु !' 'निश्चप्रचम् ॥' 'अहो ! दक्षा खलु भवती !' - इत्युक्त्वा सा मम बालसखी मालिनी प्रथमं तु क्रुद्धा भवति स्म ततश्च हसति स्म । एकदैवं जातं यत् सर्वान्तिमदिने मया चर्चगेटस्थानकात् सान्ताक्रुझस्थानकं यावद् रेलयानयात्रां कृत्वा स्थानकाद् बहिः स्थानकनियन्तुः सकाशेऽनुज्ञापत्रं नवीकारितं, ततः ससन्तोषं गृहं प्राप्ता । पिता मम यथानियमं हिन्दोले उपविष्ट आसीत् । अहमपि सानन्दं तस्याऽन्तिकमेवोपविष्टा । आवयोर्द्वयोरपि पिता-पुत्रीसम्बन्धादप्यधिको मैत्रीपूर्णः सम्बन्ध आसीत् । अहं मम सर्वमपि वृत्तं निःसङ्खोचमेव
SR No.521041
Book TitleNandanvan Kalpataru 2018 11 SrNo 41
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2018
Total Pages90
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy