SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ प्राचीनं साहित्यम् संस्कृतं सर्वतोभदम् श्रीके. ए. रामलिङ्गशास्त्री (कामधेनु-सम्पादकः) संस्कृतस्य सर्वतोभद्रत्वे कः संशयीत ? न कोऽपि संदिहीत; ब्रह्माऽपि संशयं न विदधीत; तथा सति को न खलु अपरो भारतवर्षीयो वा वैलायतिको आमेरिको वाऽत्र अपारं द्वापरम् आरचयेत् ? स्यादेतत् - संस्कृतस्य सर्वतोभद्रत्वं किं नाम ? या किल पुरुषसिंहेन श्रीमदमरसिंहेन 'ब्राह्मी तु भारती भाषा गीर्वाग् वाणी सरस्वती । व्याहार उक्तिर्लपितं भाषितं वचनं वचः ।' - इत्यादिना पद्येन प्रत्यपादि । सैव इयं गीर्वाणवाणी - 'गीर्देवतेति गरुडध्वजवल्लभेति शाकम्भरीति शशिशेखरसोदरेति' इति चाऽन्यत्र उपवणितरीत्या महादुर्गा-महालक्ष्मी-महासरस्वतीस्वरूपा च दिव्या भव्या स्तव्या नम्या अमेया अमाया कामधेनुः ।। 'व्यक्ताव्यक्तगिरः सर्वे वेदाद्या व्याहरन्ति याम् । सर्वकामदुघा धेनुः सा मां पातु सरस्वती' - इति सरस्वतीरहस्योपनिषत्-सकलकामकलयित्रीम् अस्तौत् कामदोग्ध्रीम् इमाम् । मन्त्रेऽस्मिन्- 'वेदाद्याः' इतस्य स्थाने देवाद्याः इति पाठान्तरं श्रूयते, पाठद्वयमपि प्रस्तुतवर्णने समञ्जसमेव । 'वाचं धेनुमुपासीत' इति च चोदना विशदयति एतस्या अकृत्रिमलावण्यरमणीयायाः परमपावनगोरूपतां वाग्देवतायाः 'भाषा'-पदप्रतिपाद्यायाः । अमृतेऽस्मिन् ननु संस्कृते भाषा-पदं निरूढम् । पाणिनि-महामुनिश्च भाषापदेन गीर्वाणवाण्या लौकिकं प्रयोगम्, 'छन्दः'पदेन च वैदिकं प्रयोगं समसूसुचत् अष्टाध्याय्यम् । नैसर्गिकसंस्कारवत्या एनयैव गिरा सुराश्च भूसुराश्च मनीषिणश्च पूताश्च, विभूषिताश्च चकासतीति कविसार्वभौमः ‘कुमारसंभव'काव्ये इत्थं कवयाम्बभूव, पार्वत्या हिमवतः महाभाग्यसंपत्तिसंप्राप्तिप्रतिपादनावसरे - १९
SR No.521041
Book TitleNandanvan Kalpataru 2018 11 SrNo 41
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2018
Total Pages90
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy