SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ 'प्रभामहत्या शिखयेव दीपः त्रिमार्गयेव त्रिदिवस्य मार्गः । संस्कारवत्येव गिरा मनीषी तया स पूतश्च विभूषितश्च ॥ सच्चारिणी दीपशिखेव रात्रौ यं यं व्यतीयाय पति वराय । नरेन्द्रमार्गाट्ट इव प्रपेदे विवर्णभावं स स भूमिपालः ।। - इति ईदृशमधुमयोपमानोपमेयभावरमणीयरचनानन्दितभूपोपलब्धेन 'दीपशिखा'बिरुदेन मण्डितः किल कालिदासः पद्येऽस्मिन् भगवत्या हैमवत्या हिमवतः सिद्धं पूतत्वं विभूषित्वं च प्रतिपिपादयिषुःप्रभाधिकया ज्वालया प्रदीपस्येव, स्वर्णद्या स्वर्गमार्गस्येव, संस्कृतगिरा मनीषिण इव चेत्युपमानत्रितयस्य निबन्धनेन, गैर्वाण्या आत्मन उपनतं पूतत्वं च विभूषितत्वं च अनुभवन्नेव मोदते इत्यभ्यूहितुं शक्यते; संस्कृतगिरा यथा अहं मनीषी अभूवम् अन्योऽपि मनीषी पूतो विभूषितश्च भवति, तथा इत्यनुसन्धेयम् । अनेन सूक्तेन च मुदितेन राज्ञा 'दीपशिखा'बिरुदं प्रदेयं महाकवये इति मन्यामहे। इदमत्राऽऽकूतम् - प्रभाधिका शिखा किल - स्वतः च पावयित्री च विभूषयित्री च यथा नाम संदृश्यते सर्वैः, नन्वेवमेव सुरधुनी च हैमवती च सुरसरस्वती च संस्कारिणी संस्कृता च पूता च पवित्रयित्री 'चेत्यभ्युपगन्तव्यम् - इति । किं बहुना - 'सर्वासामपि भाषाणां गैर्वाणी जननी ननु । अन्यासामपि भाषाणां भाषात्वं जनयत्यसौ ॥ सौपर्वणीयं सौवर्णी वाणी वेणी हि पावनी । एनयाऽस्नपितो विद्वान् कथं पूतश्च संस्कृतः ? ॥ गेहे गेहे धेनुरेका सुपोष्या, मोहे मोहे शेमुषी स्वा समीक्ष्या । ग्रामे ग्रामे माणवा: सूपदेश्या, देश्याचाराश्चारणैश्चारणीयाः ॥" सर्वाङ्गसुन्दरी सुरगीरियं पुरा सकलैरपि व्यवह्रियमाणा येन केन प्रकारेण महनीया पप्रथे । नन्वत एव सर्वास्वपि भाषासु सुरगिरः पदानि बाहुल्येन उपलभ्यन्ते; तत्र तावदधुना आङ्ग्ल्याश्च अमरगिरश्च कियान् तर-तमभावो विमृश्यते । आङ्ग्ली किल भाषा-सर्व भाषाऽधमर्णा, सर्वभाषासङ्कीर्णा, अव्यवस्थितवर्णोच्चारणा, जीविका) पठ्यमाना आवालगोपालाङ्गनं विदितस्वरूपा बाभाति जगत्यस्मिन् । भाषायाम् एतस्याम् Put – 'पुट' but – 'बट' cut-'कट' Nut-'नट' आदिपदानामुच्चारणं न व्यवस्थितम् । Hour-'अवर्' Our
SR No.521041
Book TitleNandanvan Kalpataru 2018 11 SrNo 41
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2018
Total Pages90
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy