________________
कथाद्वयम्
(१) औत्पातिकी बुद्धिः
मुनिनेमिहंसविजयः
एकदा भोजराजो नगरचर्यां द्रष्टुं निर्गच्छति स्म । एको नापितो गृहपाश्र्वात् निर्यातः । नापित एकां गाथां मुहुमुहुर्वदति स्म ।
भरिया तां सहूइ भरइ ठालां भरइ न कोइ ।
भोजराज माहरइ सालो, मुहरइ कांइ न देइ । मुहुर्मुहुर्गाथामनां श्रुत्वा नृपः कुपितः । प्रातः राजसभायामाहूयाऽपशब्दं वदन्तं नापितं मरणदण्डनमादिशत् । नापितोऽकथयत् - "भो नृपः ! मम कोऽप्यपराधो नास्ति ।" नृपः कथितवान् - "आम् ? त्वं मां श्यालक - इति कथयसि स तवाऽपराधोऽस्ति ।" नापितेन कथितं – भो नृपः ! सत्यं वदामि यद् भवान् परस्त्रीसहोदरोस्ति, ततो मम भार्या भवतो भगिनी भवति, तेन कारणेन भवान् मे श्यालको भवति ।" इदं श्रुत्वा नृपस्तुष्टोऽभवत् । स नापिताय पुरस्कारं दत्तवान् ।
(२) निशायामुच्चस्वरेण न वदेत्
एकस्मिन्नगरे कश्चन तिलपेषको न्यवसत् ।
एकदा स तिलभृतं पात्रं पेषणार्थं मुक्त्वा सुप्तवान् । मध्यरात्रे कोऽपि धार्मिको जागरित्वोच्चस्वरेण मन्त्रपाठमकरोत् । तच्छ्रुत्वा तिलपेषकः प्रबुद्धः । प्रातःकालः सञ्जात इति मत्वा च तिलपात्रे स्थितास्तिलान् पेषण्यां क्षिप्त्वा पेष्टुं लग्नः । प्रातःकाले तैलं दृष्टम् । सुष्टु न प्रतिभातम् । ततः समीपे मार्जारौं रुदतीं दृष्ट्वा तेन तिलचूर्णं दृष्टं, तस्मिन् मार्जारपोतानामस्थीन्यपश्यत् । तेन चिन्तितम् - अस्मिन् तिलपात्रे मार्जार्या स्वशिशवो मुक्ता भवेयुस्तेऽपि मया पिष्टाः । हृदये बहुसन्तापो जातः । तत्पश्चात् श्रीमहावीरप्रभोः समीपे गत्वा स स्वस्य पापानि प्राकाशयत् । प्रभुरकथयत् - निशायामुच्चनादेन ब्रुवतो धार्मिकस्य बहु पापं बद्धम् । त्वमज्ञ आसीस्तस्मात् तेऽल्पं पापं बद्धम् । तिलपेषको मुनिर्भूत्वा पापमालोच्य व्रतं च पालयित्वा स्वर्गं गतवान् ।