Book Title: Nandanvan Kalpataru 2018 11 SrNo 41
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 82
________________ आल्यस्माकं समयः, स्वेच्छाविचरणविधायको भावी । सन्ध्या यदि न भविष्यति, विरहानलतो मरिष्यामि ॥१०१॥ अभिसरणेऽङ्गस्तम्भः, स्वेदः कम्पस्तथा च रोमाञ्चः । वैवयं सखि ! कामं, दृश्यन्ते कामचिह्नानि ॥१०२॥ सखि ! प्रियगोष्ठी भविताऽन्योन्यश्लेषस्तथा च सन्तोषः । परमानन्दश्चेतोविश्रामोऽविरोधतो भावी ॥१०३॥ ह) ! नो बिब्बोको, मोट्टायितमस्तु विभ्रमो ललितम् । किलकिञ्चितमपि भावात् सन्त्वस्माकं सरोष-भयम् ॥१०४॥ रजनीमुखं निशा वा, यदि वा तिमिरं भवेन्न लोकेऽस्मिन् । तत्कथमस्मज्जीवित-मिति सम्प्रति पांसुलालापाः ॥१०५॥ विहसत्प्रभया हसन्नसावथ चन्द्र उदितो नयन्निव । विप्लवयन्ती सरोरुहं विहसन्तीं विशदां हि कुमुदिनीम् ॥१०६॥ ॥ इति पञ्चमः सर्गः ॥

Loading...

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90