Book Title: Nandanvan Kalpataru 2018 11 SrNo 41
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 64
________________ श्रीमतां पूज्यानां विमलाशयानां विबुधशिरोमणीनां श्रीमद्विजयनन्दनसूरिकुञ्जराणां च तनुलताकुशलोदन्तमभिलषामि । अध्ययनविषये मुनिदक्षविजयस्य द्वितीयतरङ्गपरिच्छिन्ना दिनकरी, सुशीलविजयस्य शब्दखण्डपरिच्छिन्ना मुक्तावली चलति । शरीरविषये – उपायशतेनाऽपि मम देहगेहं रुधिरविकृतिकृतकण्डूतिव्यन्तरी नोज्झति मनागपि । सुशीलविजयस्य कदाचिद् वामवक्षसि व्यथा स्वरूपं प्रदर्श्याऽन्तर्दधाति, उपचारश्चलति । किङ्करार्हं कार्यं धार्यं कृपया कृपारसकूपारैः । बाललीलाकल्पलेखलीलयाऽनयाऽविनयलेशमपि क्षमन्तां क्षमाधराः । शिरोनामकलितं कृपादलं वितरणीयं कृपया । वत्सरै वै वैक्रमे वेदनन्दनन्देन्दु (१९९४) मिते आषाढबहुलदले नवम्यां बुधदिनेऽलेखि ॥ (आ. विजयलावण्यसूरिः) स्याद्वाददर्शनपयोनिधिवृद्धिचन्द्रं, सन्नेमिसूरिगणवन्दितपादपद्मम् । सन्नेमिदेहिसुहितोदयपूर्वशैलं विद्याधनं विबुधनन्दननन्दनाभम् ॥१॥ . नौमि (मुनिदक्षविजय:) •*. ५५

Loading...

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90