Book Title: Nandanvan Kalpataru 2018 11 SrNo 41
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 63
________________ पत्रम् पूज्याचार्यवर्यश्रीविजयलावण्यसूरिभिर्निजगुरुवर्येभ्यः शासनसमाट्-आचार्यमहाराजश्रीविजयनेमिसूरीश्वरेभ्यो लिखितं सुन्दरं पत्रमेकम् (वैक्रमे १९९४तमे वर्षे) स्वस्ति श्रीपार्श्वनाथं पार्श्वनाथं प्रणम्य भावनगरभावनगरावनि पवमानानां निशाशेषस्मरणीयनामधेयानां पूज्यपादपङ्केरुहाणां विशदाचारमूर्तीनां तीर्थरक्षकदक्षाणां चेतनचिन्तामणीनां मानवकामगवीनां जङ्गमकल्पतरूणां जगद्गुरूणां गुरुगुणानां चरणारविन्दद्वन्द्वं वन्दं वन्दं विज्ञपयति विनयविरचिताञ्जलिपुटो लावण्याणुः सूरतबन्दिरात् ।। निजावदाताधरीकृतामरतरूणां तत्रभवतां शुभवतां भवतामकम्पानुकम्पासम्पाततो वयं कुशलिनः । एकं किल वृत्तायतं दलं दलितान्तरारीणामन्तिके पुरा प्रेषि । एतत्प्रतिवचनाभावेन कल्पनाकेलि कलयामि, यदुत सुकोमलतादिगुणगणाधरीभावभावितेनाऽनेन ध्वंसीयप्रतियोगिताऽऽश्रितेति । __ भवत्सु रता सूरतालया जनता निजावनिपावनमानसा मान्यागमनोपायं मह्यं मुहुर्मुहुः पर्यनुयुनक्ति व्याहरति च - 'नोऽभ्यर्थना निवेदनीयाऽवेदनीयानामन्तिके' इति । ____ पर्युषणापर्वणि निखिलैः संमील्य निजनिजनामावलि-ललितदललेखनं चतुर्मासीपर्यवसाने च नरमणीनामाचार्यमणीनामन्तिके गमनमवश्यं कार्यमिति विचारणावासितान्तःकरणा सूरतजनता आगामिनी चतुर्मासी भाविनी सूरीशानां सूरते - इति प्रमोदमेदुरा भवति । पूज्यकृपया - देशनादानकालः पर्युषणाकालतुलनां कलयति । देशनादानकालेऽनल्पबाहल्यमालिनीमपि पौषधालयेलामतीव सङ्कलामालोकमाना लोका जल्पन्ति यदुत – अद्यावधीदृशं विशदं देशनावचनं नाऽऽकणितमस्माभिराबालजरानुगतनानावरवरसनाथैः कदाचन । पूज्यप्रभावोपवर्णनायेदमलेखि । निश्शेषशेमुषीशालिनां विनम्रमूर्तीनामविकलाराधितगुरुचरणानां श्रीमद्विजयोदयसूरीश्वराणां नयनवेदनां निशम्य मम मनो व्याकुलीभवति । शुभप्रवर्तकस्य शुभप्रवर्तकस्य गीर्वाणविजयस्य क्षयान्तिमदशा कर्णकोटरमाटिता नाटयति मनोनटम् ।

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90