Book Title: Nandanvan Kalpataru 2018 11 SrNo 41
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 72
________________ सुन्दरवदनि ! वयस्ये !, त्वत्पाशर्वादानयामि शुभगन्धम् । सुमनः श्रेष्ठंकेतक - मतिगन्धं विश्वविश्वेऽपि ॥२६॥ शीघ्रं वयं वयस्यास्त्वत्तो रमणीयवृन्तपक्वानि । देव्या बलिकरणार्थं, त्रोटामो दाडिमफलानि ॥२७॥ प्रियवादिन्यः सख्यो ! भवतीनां सकाशतो रमणीयम् । मुस्तानां ननु धूपं, सप्रणयं कारयाम्यहम् ॥२८॥ सध्रीच्यस्तव किमिदं, विस्मृतिविषयं गतं जलस्नानम् । पल्वलजलेऽतिविमले, येन स्नातं त्वया नद्याम् ॥२९॥ सख्यस्तव कुसुमाञ्जलि - दाननिमित्तं कदम्बकुसुमानाम् । अवचयने ह्यालस्यं, किमिति ? कथञ्चिन्न तद्युक्तम् ॥३०॥ सख्यः ! किं युष्माकं, पल्वलसलिलस्य शैत्यकलितस्य । किं विस्मृतमयि ! शीघ्रं कृत्यं स्वीयं समाचरत ॥३१॥ चन्द्रानने ! वयस्ये ! मत्तसलिलवायसोड्डयनैः । किमिदं जलकालुष्यं ?, नेदं युक्तं भवत्कार्यम् ॥३२॥ आल्यो ! मत्तबलाका-पङ्क्तिषु रमणं न युक्तमत्यन्तम् । किमिदं पूजासमयेऽनौचित्यं श्रीयते कामम् ? ॥३३॥ सध्रीच्यो ! वो वयकं, निगदामो यूथिकाकृते किमपि । चिनुताऽऽनयत यथेच्छं पद्मावत्याः प्रसादार्थम् ||३४|| सख्यो ! भवत्सु कार्यं समादिशामो वयं खलु प्रीत्या । आनयत पद्मिनीनां, पत्राणि कियन्ति चारूणि ॥३५॥ युष्मासु हलाः सख्यो !, बलिकरणार्थं वयं तु कथयामः । नवजम्बूनां प्रेयांस्यानेतुं फलानि मधुराणि ॥३६॥ बिल्वानां किसलयकान्, सख्यो गृहणामि कोमलानद्य । लोध्राणां च सुमनसो, देव्या वै घ्राणतर्पणिकाः ||३७|| मामस्मानादिशत, यद्यामलकैर्भवेत् किमपि कार्यम् । भवतीनामपि कार्यं, सख्यो ! वयमेव विदधामः ||३८|| सख्यो ! यवोपहारं, निष्पादयितुं यदीच्छथः सम्प्रति । अस्माभिर्मयका च, ग्राह्यास्तेऽपि च यथाशीघ्रम् ॥३९॥ सख्योऽद्य मत्सकाशादस्मच्च कुटजतरुप्रसूनानि । यूयं ह्यङ्गीकुरुत, प्रेम्णाऽऽनीतानि हारीणि ॥४०॥ ६३

Loading...

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90