Book Title: Nandanvan Kalpataru 2018 11 SrNo 41
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 52
________________ बालकष्टेडीबेर आर्द्रस्वरेण पुनः स्वकथामारब्धवान् - "पितृव्य ! मम जीवनमासीत् सुखमयम् । मत्पिता नित्यं पर्यटनाय मां नयति स्म । परं, केभ्यश्चिद् दिवसेभ्यः प्राग् सोऽकस्माद् मार्गस्योपरि यानधर्षणाद् मृत्युमाप्तवान् । अधुना मम माताऽपि नित्यमाप्रभातं सायङ्कालपर्यन्तमाजीविकार्थं गृहाद् बहिः कार्यार्थं याति । विकलाङ्गोऽस्म्यहम् । निःशेषदिनमतो निकेतनेऽहमेकल एव निवसामि । अहं स्वात्मानमेकाकिनमनुभवामि, उद्विग्नतां च प्राप्नोमि नित्यम् । कृपया भवान् भवतां याने किं नेष्यसि मां पर्यटनाय ?" टेडीबेरः स्वस्य वार्तां समाप्तवान् । अनन्तरमेव क्षणे यानचालकः प्रत्युक्तवान् - "वत्स ! तव निकेतसङ्केतं देहि ।” बालकस्य निकेतसङ्केत प्राप्य यानचालकः सङ्केतस्थानं प्रति प्रस्थितः । स्तोकसमयेन स सङ्केतस्थानं प्राप्तवान् । विस्मयप्रदमासीत् तत्रत्यं दृश्यम् । १८ चक्रिविद्युच्छकटिकानां तत्र श्रेणिरासीत् । आनुपूर्व्येण यानचालकाः सर्वे स्वयानेन पङ्गं टेडीबेरं पर्याटयन्ति स्म । सर्वे च तस्मै निःस्वार्थस्नेहं यच्छन्ति स्म । बालष्टेडीबेरस्त्वतिप्रीतवान् । सर्वयानचालकेषु स निजपितरं दृष्टवान् । तस्य नेत्रे अस्मिन् स्वार्थमययुगेऽपि निःस्वार्थहृदयानां सर्वेषां यानचालकानामुपकारं मन्येते स्म । सर्वे यानचालका अपि तस्याऽऽनन्दं दृष्ट्वाऽतिप्रमुदितवन्तः, जीवनसाफल्यञ्चाऽनुभूतवन्तः । अमेरिकाराष्ट्रं सामान्यतो मन्यते नाऽतिगुणाढ्यम्, तत्राऽपि प्रवृत्तं वृत्तमिदमद्भुतं प्रेरयत्यस्मान् यद् जीवनव्ययः कदाचिदन्येषां सहायार्थं परेषाञ्च प्रमोदार्थमपि कर्तव्य इति । (२) अप्रतिमस्त्यागः 11 मानवो जानाति वाऽनुभवति वा सुविधं यद् निजानन्दे प्राप्यते सुखम् । परं परेषामानन्ददाने तु प्राप्यते परमं सुखं तन्न जानाति सः । अत एव ज्ञापयन्ति महर्षयः "परोपकाराय सतां विभूतयः' इति । जीवितं न केवलं स्वसुखप्राप्त्यर्थमेव, अपि त्वन्यार्थमपि जीवनीयं कदाचित् । चिन्तनं न केवलं स्वसुखाप्तेः कार्यं, किन्तु परसुखाय स्वसुखस्य बलिदानमपि देयं कदाचित् । प्रवृत्त्याऽनयैव जीवनं भवेद् महार्घ्यं सुन्दरं प्रशस्यतमञ्च ।” - अस्मिन्ननुसन्धाने स्मृतिपथे समवतरति विरलं वृत्तमेकम् - लाला लजपतरायस्य जीवनप्रसङ्गोऽयमद्भुतः । तस्य जन्मभूमिर्नाम पञ्जाबराज्यम् । तदा छात्रावस्थायामवस्थितो वर्तते स्म सः । लालालजपतरायः श्रेष्ठछात्र आसीत् । परं, 'बहुरत्ना वसुन्धरा' इति सूक्त्यनुसारेण तस्य पाठशालायां तस्मादप्यधिकस्तेजस्वी विद्यार्थी विद्यते स्म । तन्नाम 'गौरीप्रसादः ' इति । प्रतिवर्षं परीक्षायां प्रथमक्रमाङ्कं स एव प्राप्नोति स्म । लालालजपतरायः कामं प्रथमक्रमाङ्कमाप्तुं तीव्रपरिश्रमं कुर्यात्, तथाऽपि परिणामे स द्वितीयक्रमाङ्कमेवाऽऽप्नुयात् परीक्षायाम् । एकदा लालालजपतरायस्य प्रतिस्पर्धिनो गौरीप्रसादस्य जननी रुग्णावस्थां प्राप्तवती । अतो ४३

Loading...

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90