Book Title: Nandanvan Kalpataru 2018 11 SrNo 41
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 59
________________ कथा ध्यानम् सा. तत्त्वनन्दिताश्री: तिब्बतदेशे एकस्मिन् दुर्गमप्रदेशे सिद्धगुरुलामरेम्पुचस्य मठ आसीत् । सिद्धलामो ध्यानस्याऽन्तिमचरणस्य साधनां जानाति स्म । स आकाशमार्गेण गच्छति स्म, बुद्धैः सह च संलापं कृत्वा पश्चात् प्रत्यूषे स्वस्य मठं प्रत्यागच्छति स्म । ततो दूरदेशाद् अन्ये लामास्तत्समीपं ध्यातुमागच्छन्ति स्म, तत्र चैव वसन्ति स्म। किन्तु मठस्य निर्वाहः कया रीत्या चलति इति कोऽपि न जानाति । एकस्य दिनस्य वार्ता अस्ति । सूर्यः प्रकाशते स्म, आकाशे चाऽभ्राणि न दृश्यन्ते स्म, प्रातःकालो रमणीय आसीत् । तस्मिन् काले एको लामो गिरे: दुर्गममार्गानारोहन् मठमागतः । तं दूराद् दृष्ट्वा रेम्पुच एकं लाममकथयत् – “पश्यतु, एक आगन्तुको लामो दूरान्मठमागच्छन्नस्ति । स मम सहाध्यायिलामगुरुणा साधनार्थमत्र प्रेषितोऽस्ति । स कतिपयानि दिनानि सह वत्स्यति, ततस्तस्य वस्तुं व्यवस्थां ममाऽन्तिके करोतु" । यदा आगन्तुको लामो मठमागतस्तदा तत्र स्थिता लामास्तस्य स्वागतमकुर्वन्, विश्रामाय च तमकथयन् । ततोऽल्पसमयेनैव रेम्पुचस्तत्राऽऽगच्छत् । आगन्तुकलामस्तस्य चरणरजसमगृह्णात्, अकथयच्च, यत् – “मम गुरुर्ध्यानस्याऽन्तिमचरणस्य शिक्षणार्थं भवतां समीपे मां प्रेषितवानस्ति । ध्यानस्य विषये भवन्तः सिद्धिं प्राप्ता इतिः श्रुतं मया । ततो भवन्तो मामन्तिमलक्षपर्यन्तं नयेयुः । अहं भवतां चरणयोः समर्पितो भवामि" । सिद्धगुरुलाम आगन्तुकलामस्य शिरस्युपरि हस्तमस्थापयदकथयच्च "पूर्वं तव गुरुरहं च सहाध्यायिनावास्ताम्, अहं यद् जानामि, सोऽपि तद् जानात्येव । किन्तु यदा स त्वामत्र प्रेषितवान् तदा तस्मिन्कोऽपि संकेतो भवेत् । त्वमत्रोषित्वा अस्माकं दिनचर्यां पश्यतु, मार्गश्च त्वया स्वयमेव लप्स्यते । तथापि यद्यावश्यकता भवेत् तर्हि मां पृच्छतु'" । ५० ―

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90