Book Title: Nandanvan Kalpataru 2018 11 SrNo 41
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
कथा
कस्य दोष: ?
सा. हंसलेखाश्रीः
सीतां हृत्वा रावणस्तामशोकवनिकायां स्थापितवानासीत् तत्र तस्य दास्यो राक्षस्यस्सीतां भृशमत्रासयन् । इदं ज्ञात्वा हनुमानक्रुध्यत् । उपसीतं गत्वा सोऽपृच्छत् - किं ता राक्षसीरहं हन्याम् ? सीतया स्पष्टं निषिध्यैका कथा कथिता ।
एको जनो वनाद् गच्छन्नासीत् । तस्य पृष्ठे व्याघ्रो लग्नः । स जनो धावं धावमेकं वृक्षमारोहत् । तत्रैकः ऋक्षस्सुप्त आसीत् । व्याघ्रस्तत्रैवाऽधोऽतिष्ठत् ।
कम्पन्तं जनमृक्षस्सान्त्वयाञ्चकार । रात्रावुभाभ्यां क्रमेणा 'ऽर्धरात्रपर्यन्तं जागरिष्यावः' एवं निश्चितम्। प्रथममृक्षस्य क्रम आसीत् । तस्याऽङ्के जनो गाढं निद्राधीनोऽभूत् । व्याघ्र ऋक्षं प्रत्यवदत् इयं मानवजातिर्न विश्वसनीया, तस्य वारके स त्वां मेऽर्पयिष्यति । अतोऽधुनैव त्वं तं प्रक्षिप, येनाऽऽवयोर्द्वयोरपि कार्यं भविष्यति ।
निष्ठावानृक्षस्तथाकर्तुं सर्वथा निषिद्धवान् । अर्धरात्रस्याऽनन्तरं जनस्य क्रम आगतः । जनो जागर्ति स्म । तस्याऽङ्के ऋक्षो गाढतया निद्राधीनोऽभूत् । व्याघ्रस्तं जनं प्रलोभयन्नभाषत - 'इममृक्षं त्वं मह्यं यच्छ, अन्यथा प्रभाते स त्वामेव मारयिष्यति । जनस्सहसा ऋक्षं प्रक्षिप्तवान् । किन्तु ऋक्षः सावधान आसीत् । अतः स न पतितः । स मनुष्यमुक्तवान् - त्वमसि कृतघ्नशिरोमणिः, तथाऽपि नाऽहं त्वां मारयिष्ये । इत्युक्त्वा स गतः । मनुष्योऽपि विलक्षीभूय प्रस्थितः ।
कथां समापयन्ती सीताऽवदत् - " मनुष्यमात्रे किञ्चन स्वभावदौर्बल्यं वर्तत एव । रावणस्य दास्यो राक्षस्यो मां यदत्रासयंस्तस्मिन् तासां को दोष: ? ता नृपस्य रावणस्य प्रसादायाऽपि तथा कुर्युः । तस्मादस्माभिस्ताः प्रति दुष्टता नाऽऽचरणीया, अपि तु करुणैव धारणीया ।"
पीडादायकान्प्रत्यपि सीताया ईदृशीं करुणां दृष्ट्वा हनुमान् सीतां सद्भावेन प्रणतवान् ।
व्यक्तेर्दोषदर्शन-परा वयमपि सीता इव व्यक्तेर्दोषं न दृष्ट्वा तेषां परिस्थितिं प्रति दृष्टिपातं कुर्याम तर्हि कदाचिदस्मिन् विश्वेऽस्माकं कदाऽपि कोऽपि दोषितो न भासेत । क्वचित्तस्य संयोगप्राबल्यं भवेत्, क्वचित्तस्य स्वभाव-दौर्बल्यम्, उत क्वचिदज्ञाततयाऽनायासेनैवाऽस्माकं विरुद्धा प्रवृत्तिर्भवेत् । 'यत्किञ्चिद् भवति तदस्मद्भाव्यनुसारेणैव भवति' इति ज्ञात्वा मनोमालिन्यं न कुर्याम, किन्तु मनः स्वस्थं शान्तञ्च कुर्याम |
४८

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90