Book Title: Nandanvan Kalpataru 2018 11 SrNo 41
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 58
________________ कथा अवसरस्य मूल्यम् सा. तत्त्वनन्दिताश्रीः एकस्मिन् नगरे एको नृपो राज्यमकरोत् । नृपो न्यायवानासीत्, प्रजाजनेषु च बहुः प्रिय आसीत् । सर्वे जनास्तस्याऽऽज्ञां पालयन्तः स्म । तस्य राज्ये सर्वे जनाः सुखिन आसन् । एकदा नृपोऽचिन्तयत् - "एतानि सर्वाणि वस्तूनि नश्वराणि सन्ति" । ततो नृपस्य भववैराग्यमभवत् सोऽचिन्तयच्च यत् - "प्रव्रजिष्यामि" । किन्तु स निःसंतान आसीत् ।। ततश्च नृपोऽचिन्तयत् यत् – प्रव्रज्यापूर्वं वार्षिकदानं करणीयं राज्यस्य च संपद् नगरजनेभ्योऽर्पणीया"। अतो नृपो नगरे उद्घोषयति स्म यत् – श्वो राजप्रासादस्य द्वारं नागरिकानां कृते उद्घाटयिष्यते, राज्यस्य च सर्वाः संपदो नगरजनेभ्योऽर्पयिष्यन्ते । किन्तु एको नियमोऽस्ति यत् प्रासादे प्रविश्य ये यस्मिन् वस्तुनि स्वस्य हस्तं निक्षेप्स्यन्ति तदेव वस्तु तेभ्यः पुरस्काररूपेणाऽर्पयिष्यते ।। ईदृशीं घोषणां श्रुत्वा सर्वे नगरजनाः सूर्योदयात् पूर्वमेव प्रासादस्य द्वारं गत्वोपाविशन् । सर्वे जनाः निजरुचितं वस्तु अभ्यलषन् । यदि निजरुचितवस्तुनि कश्चिदन्यो जनः प्राक् हस्तं मुञ्चेत् तर्हि तद् वस्तु मया न लभ्येत । - इति सर्वे चिन्तयन्त आसन् । द्वितीयस्मिन् दिने प्रातःकाले राजप्रासादद्वारमुदघटितम् । सर्वे जना निजरुचितं वस्तु लब्धं धावमाना आसन् । परिजनान् राजसभ्यान्, मित्राणि चाऽपसार्याऽभिलषितवस्तूनां ग्रहणमकुर्वन् । नृपः सिंहासनोपरि आसीनो वैराग्यभावेन तत्सर्वं पश्यति स्म, हसति स्म च । तदैको बालश्चलन् नृपस्य समीपमागच्छत् । तं दृष्ट्वा नृपोऽपृच्छत् - "किं त्वं वस्तु न इच्छसि ?" । बालो नृपस्य हस्तोपरि निजहस्तं निक्षिप्य अकथयत् - "अहं तानि वस्तूनि नेच्छामि किन्तु भवन्तमिच्छामि ।" नृपः प्रसन्नीभूय बालं निजाङ्के उपावेशयत् - "हे बाल ! नियमानुसारेणाऽहं तवाऽभवम् । ततः संपूर्ण राज्यमपि तवैव भवति । अहं तव राज्याभिषेकं कारिष्यामि सर्वाणि च वस्तूनि तुभ्यमर्पयिष्यामि।" ___ यथा नृपो नगरजनानामेकमवसरमार्पयत्, तादृक् अवसरः प्रभुरस्मभ्यमपि अर्पयति । नगरजनाः राजानं मुक्त्वा तस्य वस्तुषु रुचिमकुर्वन् । वयमपि परमात्मानं मुक्त्वा जागतिकवस्तुषु रुचिमन्तो भवामः । किन्तु न चिन्तयामो यद् भगवन्तं विना नाऽन्यत् किमपि ग्राह्यमिति । यदि भगवन्तमेवाऽभिलषामस्तदा जगत् सर्वमप्यस्माकमेवाऽस्ति ।

Loading...

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90