Book Title: Nandanvan Kalpataru 2018 11 SrNo 41
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 55
________________ कथा सत्प्रेरणम् मुनिश्रुताङ्गचन्द्रविजयः विद्युतः शोधकस्य 'एडिसन' इति नाम्ना ख्यातस्य वैज्ञानिकस्य जीवने घटितेयं घटनाऽतीव प्रेरणादायिन्यस्ति । स बाल्यकालेऽध्ययनेऽतीव मन्द आसीत् । तथापि प्रायश एवं भवत्येव यद् योऽध्ययने मन्दो भवेत् सोऽन्यकार्येषु निपुणो भवेत् । अयं नियमस्तस्य जीवनेऽप्यन्वेति स्म । तस्याऽध्ययने मन्दत्वात् कदाचित् शिक्षक एकं पत्रं लिखित्वा तस्मै दत्तवान् कथितवान् च - 'गृहं गत्वेदं पत्रं मात्रे दातव्यं किन्तु त्वया न पठितव्यम्' इति । गृहमागम्य एडिसनेन तत्पत्रं मात्रे दत्तम् । जननी पत्रं पठितवती । पत्रे पठिते सति एडिसनो जननी पृष्टवान् यत् - शिक्षकेण पत्रे किं लिखितमस्ति, तद् भवती ज्ञापयतु कृपया । जनन्योक्तं यत् – 'तव पुत्रोऽध्ययनेऽतीव निपुणोऽस्ति, अतस्तं प्रतिदिनं शालां प्रेषयतु' इति शिक्षकेण पत्रे लिखितमस्ति । अपरस्मिन् दिने माता एडिसनेन सह शालां गता । शिक्षकेण मिलित्वा तस्य कर्णे च मन्दं मन्दं किञ्चित् कथयित्वा सा प्रतिनिर्गता । शिक्षकेण स्वस्य प्रशंसा कृता इति विज्ञाय एडिसनस्याऽध्ययने उत्साहो वृद्धि गतः । ततः प्रभृति स सावधानतया पठनमारब्धवान् । स तावत् पठितवान् यद् आगामिनि काले स विद्युतः शोधनं कृत्वा जगत्प्रसिद्धोऽभूत् । काले व्यतीते सति तस्य माता वार्धक्येन गलितदेहा जाता । अल्पकालेनैव दिवङ्गता च । ___एकदा एडिसनो गृहे मञ्जूषास्थितानि पुराणानि पत्रादीनि वस्तूनि पश्यन् आसीत् । सहसा तस्य करतले बाल्यकाले शिक्षकेण लिखितं पत्रमागतम् । तत्पत्रं तेनाऽद्यपर्यन्तं न पठितमासीत् । पत्रे शिक्षकेण लिखितमासीत् 'त्वदीयपुत्रोऽध्ययने मन्दोऽस्ति, अतः स शालाया निष्कास्यते' इति । एतत् पठित्वा एडिसनस्य मस्तिष्कं विचारैः कम्पितम् । शिक्षकेण तु किं लिखितं पत्रे ? माता च मां किमुक्तवती ? यदि नाम माता सत्यमवदिष्यत् तर्हि अद्याऽहं विद्युत्शोधने शक्तो नैवाऽभविष्यम् । इति चिन्तयन् स मातरं प्रति कृतज्ञताभावेनाऽऽर्दीभूय रुदन् एव स्थितः ।

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90