Book Title: Nandanvan Kalpataru 2018 11 SrNo 41
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 46
________________ अत्र तु कालरात्रिश्चलति । भवान् प्रकाशांशुर्भूत्वा समायातः । उपगुप्तः राजन् ! सूर्यस्तु स्वसमये उदेत्येव । किन्तु शयितारः स्वपन्ति । भवते विजयोऽपेक्षित आसीत् स प्राप्तः । एषा व्यथा किंनिमित्ता ? अशोकः किमेष विजयः कथ्यते गुरुदेवः ? एष तु मम घोरपराजयः । महाभयङ्करे रक्तपाते, नरसंहारस्य सागरे आकण्ठं निमग्नोऽहम् । आधारैषिणो मम निराधारस्य सहायको भवतु । उपगुप्तः राजन् ! भवत्परम्परानुगुणं विजयोत्सवमकृत्वा किमर्थं व्यथितः ? एतादृशानि युद्धानि तु सामान्यानि भवत्कृते । कश्चिदपमानं कृतवान् वा भवतः ? अशोकः नहि महात्मन् ! अद्य कश्चित् मां स्वमानभानं कारितवान् । दिनमिदं विजयोत्सवस्य नाऽपि त्वात्ममन्थनस्य । हिंसाया भयात् जना भयभीताः कर्तुं शक्यन्ते, तेषां शरीराणि नामयितुं शक्यन्ते किन्तु हृदयानि तून्नतान्येव भवन्ति । महायुद्धस्य विजयेनाऽभिनन्दनानि तु प्राप्यन्ते किन्तु स भयप्रभावादुद्गतः कृत्रिम आलोकमात्रो भवति । तस्या अभिनन्दनवर्षायाः पृष्ठेऽश्रूणां महासागरो भवति । वर्षाणि यावत् छिन्न-भिन्न प्रजाजीवनम्, अनेकेषां धिक्काराः, आहतानां वेदनाः, मृतानामभिशापाः, जीवितानां निःश्वासाः । विजेता प्राप्नोति खल्वितिहासे सर्वथा कलङ्कितं स्थानम्, हे महाज्ञानिन् भिक्षुवर ! अहं तु यथार्थरूपेण राजा भवितुमिच्छामि। वाञ्छामि च भवत्कृपां मार्गदर्शनं च । उपगुप्तः वत्स ! बहुवारं मानवः क्षणिकावेगेनेत्थं चिन्तयति । नैष सत्ताधीशानां स्थायी भावः । खड्गधारकः शान्तिदायकं चामरं धृत्वान्येभ्यः शीतलतां दातुं नाऽधिकं प्रभविष्यति राजन् ! अशोकः गुरुदेव ! नैषः क्षणिक आवेगः । एष तु अशोकस्य हृदयस्य यथार्थो वर्णः । आदिशतु मां गुरुदेव !। उपगुप्तः राजन् ! विश्वं सुखितं कर्तुं राजभवनत्यागिनं भगवन्तं तथागतमनुसर । हिंसां त्यज । भवने निवस किन्तु सुखाय न, प्रजाकल्याणाय । साम्राज्यानां सीमविस्तारणापेक्षया लोकानां हृदयेषु विस्तर । क्षुधार्ता भोजनं प्राप्नुयुः, तृषार्ता जलं प्राप्नुवन्तु, कोऽपि दुःखितो निःसंकोचं भवन्तं मेलितुं शक्नुयात्, न कुत्रचिदन्यायः स्यात्, कश्चिद् भीतो न स्यात् तादृशमादर्शराज्यं स्थापय । कृपाणस्य स्थाने न्यायदण्डं धारय । जनसमृद्धः स्वामी नैव, रक्षको भव । प्रजाया विनाशं न, विकासं कुरु । राजन् ! प्रजां जेतुं हिंसा वा भयं न, अपि तु स्नेहः समर्थः । महाभयङ्करो रौद्रस्वरूपो नाऽपि तु प्रियदर्शी अशोको भव । महाननुग्रहो जातो गुरुदेव !, अद्याऽऽरभ्य एष सम्राट अशोको धर्मशासनं स्वीकरोति । एनं रक्तपिपासितं खड्गं भवच्चरणयोः समर्पयामि । इदानीं त्वहिंसाचरणमेवैकमात्रलक्ष्यम् । अशोत ३७

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90