Book Title: Nandanvan Kalpataru 2018 11 SrNo 41
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 19
________________ काव्यविमर्श: स्व. आ. विजयधर्मधुरन्धरसूरयः नमदमररमणिरत्ने, दर्पणविमले मरीचिपरिकीर्णे । मुक्तविकरणोऽप्यर्हन्, बिम्बव्याजादनेकरूपोऽभूत् ॥ १ ॥ काव्यविमर्शं कर्तुं, समुत्सुकोऽस्म्यहमहो रसं वेत्तुम् । अल्पर्द्धिरपि कदाचित्, किं न करोत्यशनमुदितरसम् ॥२॥ रचनं काव्यस्याऽन्यच्चाऽन्यत्तद्रसविमर्शनं सम्यक् । अन्यत् फलप्रसूतिस्तत्सद्रसपरिचयोऽप्यन्यत् ॥३॥ केचन रसवत् काव्यं कथयन्त्यपरे ध्वनिप्रकृष्टं तत् । उत्तमशब्दार्थान्वितमन्येऽन्ये तच्च रमणीयम् ॥४॥ वक्रोक्त्या संवलितं, ललितमतिशयोक्ति लाञ्छितं भव्यम् । एवं काव्यविमर्श, लक्षणकरणे पथो नैकः ॥५॥ अस्माकं तत्सर्वं, सापेक्षतयाऽस्ति सङ्गतं काव्यम् । यस्माद्रुचिर्जनानां, नानाविधतामधिश्रयति ॥६॥ ग्राम्याणां यद्रुचिरं रुचिरं तन्नो नगरनिवासानाम् । नागरिकाणां यत् सद्, ग्राम्याणां तन्न रम्यं स्यात् ॥७॥ सत्यप्येवमनास्था, नैव विधेयाऽत्र काव्यलक्षणके । सहृदयहृदयं कर्षति, यत् तत् काव्यं सदा भाव्यम् ॥८॥ एतादृग् यदि काव्यं कर्तुमभीप्ससि तदा शृणु प्रथमम् । भावं स्पष्टमदुष्टं विधीयतामात्मनीनं च ॥९॥ तद्भावाभिव्यक्त्यै, शब्दनिवेशस्तथा पुरस्क्रियताम् । जनयेद्यथा च बिम्ब, वाचकहृदयेऽर्थबोधकरम् ॥ १० ॥ १०

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90