Book Title: Nandanvan Kalpataru 2018 11 SrNo 41
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 42
________________ अशोकः प्रतिहारी अशोकः शुद्धरागः प्रतिहारी ( दूरतः रवः श्रूयते) सैनिक: चारण- बन्दिनः कवयो भवतो युद्धप्रावीण्यं युगानि यावत् गास्यन्ति । मागधी प्रजा अपि ... अलं प्रतिहारिन् ! विरम । नैषा प्रशस्तिः । न युज्यते शौर्यगाथाः । न शुश्रूषामि मदोन्मत्तकारिणी: प्रशस्तीः । (शब्दं श्रवणाभिनयं निरूप्य) कुत एते वेदनाचीत्काराः । समरभूमौ आलुठ्यमाना व्रणिताः कलिङ्गस्य सैनिका वेदनयाऽऽर्त्तनादं कुर्वन्ति । कलिङ्गेषु नेदानीं युवानोऽवशिष्टाः, ये महाराज - अशोकस्य रोषमूढ्वा तान् साहाय्यं कर्तुं साहसं दर्शयेयुः । अशोकः सैनिकाः ! युद्धाहतानां साहाय्यं कुर्वाणानस्माकं सेवकान् कथयन्तु यत् विना भेदभावं कलिङ्गसैनिकानामपि साहाय्यं कुर्वन्तु, व्रणितानां शुश्रूषाया व्यवस्थां च कुर्वन्तु । इदानीं न कोऽपि नः शत्रुः । यः प्रतिकारं करोति तं जीवितमेव बन्धने गृह्णन्तु । निष्कारणो रक्तपातो मा भवतु । अस्यां समरभूमौ मे मनोऽधिकाधिकं खिद्यते । पराजितां राजनगरीं द्रष्टुमिच्छामि । इत इतो महाराज: । वयं पराजित - महानगरं प्रविशामः । शुद्धरागः अशोकः शुद्धरागः रे नृशंस सम्राट् ! कलिङ्गस्य नागरिकोऽहं शुद्धरागः मम नाम । प्रतिहारी अरे शुद्धराग ! तव सङ्गीतोपासनायां काचित् त्रुटिरवशिष्टा वा ? कथमद्य विस्वरं वदसि ? शुद्धरागः रे नृपमपथे नियन्त्रक... निर्माल्यदास ! त्वं कलां कुतोऽवगच्छेः ? (अशोकं प्रति) अयि क्रूर सम्राट् ! तवेमे सैनिका मां बद्ध्वा तवाऽऽगमनस्याऽऽनन्दाय सङ्गीतस्य मधुराः सुरावलीरुन्मोक्तमादिशन्ति । कलाकारमित्र ! विजयिनं सम्राजं सत्कर्तुं उत्सवा आयोजयितव्याः, सङ्गीत-नृत्यादीनां भव्य-कार्यक्रमाः कर्तव्याः । किमेतत् सामान्यज्ञानमपि कलिङ्गवासिषु नास्ति ? महाराज ! किमेकं प्रश्नं कर्तुं शक्नोमि ? इमां वीणां तदैव पुनराप्स्यसि यदा महाराज- अशोकस्य विजय - वर्धापन-गीतानि गास्यसि । स्मर्यतां, यदि गीतानि न गास्यसि तर्हि तव परिवारजनास्तव मृत्युशोकगीतानि गास्यन्ति । नहि नहि नाऽहं प्रभवेयम् । मम वाद्यं न खल्वद्याऽऽनन्दस्य स्वरं निनदिष्यति । मम खेदात् कल्याण-मङ्गलसूचकानि मधुरगीतानि न प्रकटिष्यन्ति । मृत्युभयं दर्शयित्वा न भवान् मम कलां विवशां कर्तुमर्हति । धनेन क्रेतुं न शक्ष्यति, अनुमतिं ददातु। मम वीणां प्रतियच्छतु । सैनिका निर्दोषान् नगरजनान् पीडयन्ति । सैनिकाः ! मुञ्चन्तु ! भ्रातः ! अत्राऽऽगच्छ । किं नाम ते ? I ३३

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90