Book Title: Nandanvan Kalpataru 2018 11 SrNo 41
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
क्रूरतमः कः ? (हिटलरः स्तालिनः माओ वा ?)
गूर्जरमूलम् - प्रफुल्ल-पारेखः
सं. कल्याणकीर्तिविजयः जगतोऽनादिकालीनो नियमोऽयं यद् - यदा जनानामहङ्कार-ममकार-मत्सरेादयो दोषाः प्राबल्यं प्राप्नुवन्ति तदा तदा युद्धं भवति । युद्धे च बहुशो हिंसा-लुण्टन-धर्षणादिकं प्रवर्तते ।
सामान्यतया युद्धे भागं ग्रहीतॄणां सैनिकानां मृत्योः प्रमाणमधिकं भवति प्राकृतानां नागरिकाणां च मरणसङ्ख्या नाऽधिका भवति । किन्तु द्वितीये विश्वयुद्धे इयं मतिर्वितथाऽभवत् । अस्मिन् युद्धे सैनिकानामपेक्षया नागरिकाणां मरणसङ्ख्याऽधिकाऽऽसीत ।
इतोऽप्याश्चर्यजनकं वृत्तं त्वेतद् यद् - विश्वयुद्धस्य जनहिंसातोऽपि स्तालिनस्य माओ-इत्यस्य च शासनकाले युद्धं विनाऽप्यत्यधिकसङ्ख्यानां जनानां हिंसाऽभवत् ।
ऐकाधिपत्यशासने(Dictatorship) यद्यप्यबाधितं प्रभुत्वं भवति तथाऽपि तादृशाः शासका भयभीता भवन्ति सर्वदा । प्राधान्येन तेषां स्वघातस्य, स्वं विरुध्य षड्यन्त्ररचनस्य, शासनभ्रंशस्य च भयं भवति । एतादृशीः सम्भावना अपि रोर्बु ते सर्वत्र शङ्काशीलमानसाः सन्तो निजसहयोगिनः, स्वकल्पितविरोधिनो निर्दोषनागरिकांश्च त्रासयन्ति घातयन्ति चाऽपि ।
अस्मिन् विषये चीनदेशस्य नागरिकाः सर्वाधिक्येन दौर्भाग्यहता आसन् । चीनदेशे राष्ट्रवादिपक्षस्य च्यांग-काई-शेक्-इत्यस्य साम्यवादिपक्षस्य च माओ-झेडोंग्-इत्यस्य च मध्ये ऐसवीयात् १९२७तमवर्षादारब्धं गृहयुद्धं १९४९तमवर्षं यावत् प्रवृत्तम् । ऐसवीयात् १९३७तमवर्षात् १९४५तमवर्ष यावत् जपानदेशस्याऽऽक्रमणं चीनदेशेन सम्मुखीकर्तव्यमभवत् । द्वाविशतिवर्षपर्यन्तं प्रवृत्ते गृहयुद्धे जपानदेशेन सह च प्रवृत्ते युद्धे चीनदेशस्य लक्षशः सैनिका नागरिकाश्च मरणं प्राप्ताः ।
१९४९तमे वर्षे माओ चीनदेशस्य सर्वसत्ताधीशोऽभवत् । 'युद्धानि स्थगितानीति सुखं जीविष्यामः' इति हि प्रजाजनानामपेक्षाऽऽसीत् । किन्तु तामपेक्षां सर्वथाऽपूरयित्वा माओ प्रजाजनान् युद्धकालादपि हीनायां भ्रष्टायां च परिस्थितौ नियोजितवान् ।
साम्यवादिनां प्राथमिकः सिद्धान्त एवाऽयं यत् - प्रस्थापितशासनव्यवस्था, प्ररूढा विचारपद्धतिः, स्थापितानि च हितानि - इति त्रयमपि नाशयितव्यम् । एतदनुसृत्य १९५०तमे वर्षे माओ-इत्यनेन
२६

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90