Book Title: Nandanvan Kalpataru 2018 11 SrNo 41
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
१९३९तमवर्षादारभ्य १९४१तमं वर्षं यावत् ताभ्यां पोलेन्डस्य लक्षद्वयं नागरिका घातिताः । १९४१तमे वर्षे हिटलरो रशियादेशमप्याक्रान्तवान् । ततश्च द्वयोमैत्री अवसिता । किन्तु द्वयोः शक्तिशालिनोर्देशयोर्मध्ये पतितः पोलेन्डदेशो बह्वपायान् सम्मुखीकृतवान् । १९३९तमवर्षादारभ्य १९४५तमं वर्षं यावत् पोलेन्डदेशस्य १,२३,०००मिताः सैनिकाः ६०,२८,०००मिताश्च नागरिकाः मरणं प्राप्ताः ।
युद्धात् पूर्वमपि रशियादेशे स्तालिनस्याऽत्याचारैर्लक्षशो जना मृताः । युद्धसमाप्त्यनन्तरमपि तदत्याचारा अनुवृत्ता एव । तस्य शङ्काऽऽसीद् यत् - तस्य बहवो नागरिका जर्मनीदेशस्य साहाय्यं कृतवन्तो जर्मनीयांश्च प्रति समवेदनं धारितवन्त इति । अतः स तादृशान् सहस्रशः शङ्कास्पदनागरिकान् घातितवान् लक्षशश्च नागरिकान् साइबिरियाप्रदेशे श्रमशिविरेषु प्रेषितवान् यत्राऽसह्यशीत-क्षुत्तृषादिदुःखैस्तेषां मरणं प्रायशो निश्चितमासीत् ।
स्तालिनस्याऽत्याचाराः केवलं रशियादेशे सीमिता नाऽऽसन् । द्वितीयविश्वयुद्धानन्तरं पूर्वीययुरोपखण्डस्य प्रायः सर्वेष्वपि देशेषु स्तालिनस्य प्रभुत्वमासीत् । अतस्तत्रत्याः सर्वकाराः स्तालिनस्यैव शासनमनुसरन्ति स्म । एतेषु देशेषु साम्यवादविरोधिनामेकैव शिक्षाऽऽसीत् - मरणम् । अनया शिक्षया मृतानां सङ्ख्यैव न ज्ञायते ।
हिटलरं पराजेतुं सर्वाधिको श्रमः स्तालिनस्याऽऽसीत्, अतः प्रजाजनान् प्रति तेनाऽऽचरितां क्रूरतामविगणय्याऽपि १९४५तमस्य १९४८तमस्य च वर्षस्य नोबलपुरस्कारार्थं तस्य नामोपस्थापितमासीत् । नोबल-पुरस्कारस्तु यद्यपि न प्राप्तस्तेन, तथाऽपि 'टाइम'पत्रिकया स 'वर्षस्य श्रेष्ठव्यक्तित्वेन' (Person of the Year) परिगणितः ।
हिटलरस्य नामग्रहणेनैव तेन लक्षशो यहूदीनां कृता हिंसा स्मृतिपथमायाति । स जर्मनीदेशस्य १,६५,००० मितान् यहूदीयान् घातितवान् । इतोऽप्यधिकं त्वेतद् यद् - जर्मनीदेशे वसन्तः सहस्रशो भिक्षुका मनोरोगिणो विकलाङ्गाश्च जनास्तेन घातिताः । स यान् युरोपीयदेशान् जितवान् तत्रत्या यहूदीजातेविरोधिनो नागरिका यहूदीयजनविषयकं वृत्तं नाझीसैनिकेभ्यो ज्ञापयित्वा लक्षशो यहूदीयानां घातने निमित्तीभूता जाताः । नाझीसैनिकाः २६लक्षमितान् यहूदीयान् गुलिकया मारितवन्तः, २८लक्षमितांश्च विषमयवायुप्रकोष्ठे पूरयित्वा मारितवन्तः ।
युद्धकाले तु सैनिकानां मरणं सामान्यम् । किन्तु द्वितीयविश्वयुद्धे युद्धरतानां सैनिकानामपेक्षया निःशस्त्रा युद्धबन्दिनोऽत्यधिकतया मृताः । जर्मनीयसैन्येन ५७लक्षमिता रशियादेशीयाः सैनिकाः गृहीताः आसन् । तेभ्यः ३५लक्षमितास्तु बुभुक्षयाऽत्याचारेण शीतेन रोगैश्च मृताः । रशियादेशीयसैन्येन गृहीतानां लक्षशो जर्मनसैनिकानामपि तादृश्येव दशा जाता ।
अस्मिन् युद्धे १.९१कोटिमिताः सैनिकाः ४.५९कोटिमिताश्च प्राकृता जना मृताः । विकलाङ्गानां, बुभुक्षया मृतानां, धर्षितानां च महिलानां तु गणनैव नास्ति ।
२८

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90