Book Title: Nandanvan Kalpataru 2018 11 SrNo 41
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 25
________________ कायस्त्वक्परिवर्तनमापलो वा विकारमुपपन्नः । बीभत्सः कस्य मनसि, नतरां जनयति जुगुप्सां ही ॥८६॥ अशुचित्वभावनायां, नृपकनिरागापसारणाप्तोक्तौ । मल्लिचरित्रे षण्णां, मित्राणां बोधनावसरे ॥८७॥ एकच्छवं राज्यं, बीभत्सरसस्य दृश्यते तत्र । दृष्ट्या तत्त्वाञ्चितया, बीभत्सं पुद्गलं सकलम् ॥८॥ शान्तरसो रसविदिः, कथितोऽपि सुदुर्लभोऽत्र संसारे । अत एव केचनाऽष्टौ, रसा इति निरूपयन्ति पुनः ॥८९॥ शान्तानां साधूनां, यद् यद् वृत्तं तदत्र शान्तरसे । पोषकमनुसन्धेयं, सदावोद्भावितं हृदये ॥१०॥ रामायणे रसोऽसौ, शान्तः परिपोषितः कविवराणाम् । समयेऽथवा प्रसिद्धः, सतां चरित्रेऽस्ति सर्वत्र ॥१॥ यावल भावुकानां मनः शमाञ्चितमपेतमालिन्यम् । शान्तरसस्य न तावद्वार्ताऽप्यायाति तत्सविधम् ॥१२॥ एकः खलु शान्तरसस्तत्प्रतिबिम्बं परे रसाः सर्वे । दुःखितमपि रसराजः, सुखमनुभावयति सततमसौ ॥१३॥ परमात्मनि शृङ्गारं, प्रसाधयन् परमभेदमाप्नोति । शृङ्गारः स परोऽन्यः, कल्पनया केवलं रम्यः ॥४॥ यद्यभिलषितं हास्यं, तदा स्वचरितं विवेकविकलं किम् । हास्यरं नहि पश्यसि, यत् पमुपहससि संमूढः ॥१५॥ यावल मोहमुक्तस्तावत्त्वं शोकसङ्कुलः सततम् । सर्वेषां करुणरसोदाहरणं भववने भ्रमसि ॥१६॥ रागाद्यास्ते रिपवः, क्रूरास्त्वं शूरतां प्रकटय पराम् । वीररसोऽप्यप्रतिमः, सोत्साहो हन्त तत्र स्यात् ॥१७॥ कालमनन्तं भ्रान्तस्तथापि न श्रान्त आत्मविभ्रान्तः । अद्भुतमन्यत् किमतः, परं समस्तेऽस्ति भुवनेऽस्मिन् ॥८॥ तृणमात्रेऽपि ममत्वं, भयमनुभावयति कर्षितं किञ्चित् । त्वमपि भयानकतां परमनुभावयसि प्रभूतभयः ॥७९॥ क्रोधस्त्व परमसुहृद्, रौद्रं रूपं संजनयति नितराम् । तद् दृष्ट्वा परमपरे, रौद्राकारा भवन्तितराम् ॥१००॥ १६

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90