Book Title: Khavag Sedhi
Author(s): Premsuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti

View full book text
Previous | Next

Page 576
________________ क्षीण कषायगुणस्थान झम् ] असंगतकषायाद्धाधिकारः [ ४१९ तदेवं समाप्तः षष्ठोऽधिकारः । तत्समाप्तौ च समाप्तो मोहनीयक्षपणाविधिः । मोहनीये च क्षीणे परेसां कर्मणां विनाशोऽवश्यंभावी । यदुक्त श्रीतत्त्वार्थसूत्रभाष्यकारैः "पूर्वार्जितं क्षपयतो यथोक्तः क्षयहेतुभिः । संसारबोजं कार्येन मोहनीयं प्रहीयते ॥१॥ ततोऽन्तरायज्ञानघ्न-दर्शनघ्नान्यनन्तरम् । प्रहीयन्तेऽस्य युगपत् त्रोणि कर्माण्यशेषतः ॥२॥ गर्भसूच्यां विनष्टायां यथा तालो विनश्यति । तथा कर्म क्षयं याति मोहनोये क्षयं गते ॥३॥” इति । तेन शेषाणां त्रयाणां घातिकर्मणां क्षपणप्रक्रियां दिदर्शयिषुः सप्तमा-ऽधिकारं विवर्णयति सेकालेऽवगयकसायगुणं लहए स पत्तहक्खायो। ठिइरसरहियं तइयं बंधइ पयइप्पअसेहिं ॥२२४॥ अनन्तरकाले-ऽपगतकपायगुणं लभते स प्राप्ता-ऽथाख्यातः । स्थितिरसरहितं तृतीयं बध्नाति प्रकृतिप्रदेशाभ्याम् ।।२२४।। इति पदसंस्कारः 1 'सेकाले' इत्यादि, 'अनन्तरकाले' मोहनीयनिश्शेषक्षयानन्तरसमय इत्यर्थः 'स' जितमोहः क्षपकः 'प्राप्ता-ऽथाख्यातः' मोहनीयपरिक्षयात् प्राप्त लब्धम् अथाख्यातम् अथशब्दोऽत्र याथातथ्ये, आङ् अभिविधौ, आ समन्ताद् याथातथ्येन-कवायोदयाभावेन निरतिचारत्वात् पारमार्थिकरूपेग ख्यातं तदथाख्यातं येन, स प्राप्ता-ऽथाख्यातः, 'अपगतकक्षायगुणं' पदैकदेशे पदसमुदायस्योपचाराद् अपगतकपायगुणस्थानकं क्षीणमोहगुणस्थानकमित्यर्थः, 'लभते' अश्नुते । ननु प्राप्तक्षीणकषायगुणस्थानकः किं करोति ? इत्यत आह-ठिइ०' इत्यादि, स्थितिरसरहितं 'तृतीयं सातवेदनीयकर्म प्रकृतिप्रदेशाभ्यां बध्नाति, तद्वन्धस्य योगनिमित्तकत्वात् । इदमुक्तं भवति-स्थितिबन्धो रसबन्धश्च कषायप्रत्ययौ । क्षीणकषायगुणस्थानके च कषायाभावात् स्थितिरसौन बध्यते । प्रकृतिवन्धः प्रदेशबन्धश्च योगप्रत्ययौ । क्षीणकषायगुणस्थानके च गात्रसचारादिरूपयोगसद्भावात् सातवेदनीयस्य प्रकृतिवन्धः प्रदेशबन्धश्च जायते । अयं च सातवेदनीयबन्ध ईर्यापथिककर्मबन्ध उच्यते । अयम्भाव:-"ईर गतिप्रेरणयोः” इत्यस्माद् भावे ध्यण्प्रत्ययः, ईरणम्-ईर्या=गमनम् , तस्यास्तया वा पन्थाः ईर्यापथः, तत्र भवम् ईर्यापथिकम् । व्युत्पत्तिनिमित्तमेतद्, यतस्तिष्ठतोऽपि तद्भवति । प्रवृत्तिनिमित्तं तु गात्रसश्चरादिरूपेण योगेन यत्कर्म बध्यते, तदीर्यापथिकम् , योगनिमित्तकमित्यर्थः । तच्च प्रथमसमये बध्यते,कषायाभावेन स्थित्यभावाद् द्वितीयसमये वेद्यते,तृतीयसमये चा-ऽकर्मतामेति । तच्च प्रकृतितः सातवेदनीयं भवति, स्थितितो द्विसमयस्थितिकमनुभावतोऽनुत्तरोपपातिकसुखातिशायि,प्रदेशतश्चः स्थूल रूक्ष-शुक्ल-मन्द-महाव्यय-बहुप्रदेशम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786