Book Title: Khavag Sedhi
Author(s): Premsuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti

Previous | Next

Page 655
________________ '४९८ ] खबगसेढी [ गाथा-२६२२६४ वैक्रिया-ऽऽहारक-तैजस-कार्मण-शरीररूपाः, पञ्चसंघातानि औदारिक क्रिया-ऽऽहारक तैजस-कार्मणसंघातलक्षणानि 'खगतिसुरद्विकं च' किशब्दस्य प्रत्येक सम्बन्धात् खगतितिक-प्रशस्तविहायोगत्यप्रशस्तविहायोगतिरूपं सुरद्विकं देवगति-देवानुपूर्वीलक्षणम् , चकारः समुच्चयार्थः, 'वीसा वण्णाई' ति 'विंशतिर्वर्णादयः' कृष्ण-नील-लोहित-हारिद्र-शुक्लवर्ण-सुरभि-दुरभिगन्धतिक्त-कटु-कवायाऽऽम्ल-मधुररस-गुरु-लघु-मृदु-खर-शीतोष्यस्निग्धरूक्षस्पर्शाख्याः प्रकृतयः 'तथा' तथाशब्दः समुच्चये 'बन्धनपञ्चदशकं' बन्धनानां पञ्चदशकमिति अन्धनपञ्चदशकम्, पञ्चदशानां बन्धनामौदारिकौदारिकौदारिकतैजसौदारिककार्मणौदारिकतैजसकार्मण-वैक्रियवैक्रिय-क्रियतैजस क्रियकार्मण-वैक्रियतैजसकार्मणा-ऽऽहारकाहारका - ऽऽहारकतैजसा-ऽऽ-हारककार्मणा-ऽऽहारकतैजसकार्मणतैजसतैजस-तैजसकार्मण-कार्मणकार्मणाख्यानां समुदाय इति यावत् , 'निर्माणं' निर्माणनामकर्म 'अंगोवंगतिगं' ति 'अङ्गोपाङ्गत्रिकम्' औदारिक-वैक्रिया-ऽऽहारका-ऽङ्गोपाङ्गरूपं पत्तेयतिगं' ति 'प्रत्येकत्रिक' प्रत्येकोपलक्षितत्रिकं अत्येकनामकर्म स्थिरनामकर्म शुभनामकर्म चेत्यर्थः, 'सुस्वरं' सुस्वरनामकर्म 'अपर्याप्तम्' अपर्याप्तनामकर्म च 'सायं' इत्यादि, 'सातं वा' सातवेदनीयं वा 'असातं वा' असातवेदनीयं वा, सातवेदनीयोदयेन शैलेशी प्रतिपन्नस्या-ऽसातवेदनीयमसातवेदनीयोदयेन पुनः शैलेशीमधिगतस्य सातवेदनीयमित्यर्थः, 'नीचं नीचेगोत्रं चेत्येताः सर्वसंख्यया द्वयशीतिप्रकृतयः 'सन्तत्तो' त्ति सत्तातः 'छिद्यन्ते' स्वरूप सत्तामधिकृत्य क्षप्यमाणाः क्षपिता इत्यर्थः, चरमसमये स्तिवुकसंक्रमेणोदयवतीयु मूलप्रकृत्यभिन्नासु परप्रकृतिषु तासां संक्रमणात् । प्रत्यपादि च कमस्तवे "देवदुगपणसरीरं पंचसरीरस्स बंधणं चेव । पंचेव संघाया संठाणा तह य छकं च ॥१॥ तिनि य अंगोवंगा संघयणं तह य होइ छक्कं च पंचेव य वण्णरसा दो गंधा अट्ठ फासा य ।।२।। अगुरुलहुयचउकं विहायगइदुगथिराथिरं चेव । सुहसुस्सरजुयला वि य पत्तेयं दूभगं अजसं ॥३॥" इति । श्रीकर्मस्तवकृद्भिरष्टचत्वारिंशदधिकशतप्रकृतीराश्रित्य सत्ताविच्छेदोऽभिहित इति तैर्वन्धनपश्चकस्यैव सत्ताविच्छे दो दर्शितः, अस्माभिस्त्वष्टापञ्चाशदुत्तरशतप्रकृतीरवलम्ब्य सत्ताविच्छेदः प्रतिपादित इति बन्धनपञ्चदशकस्य सत्ताविच्छेदः प्ररूपितः । इदमत्राऽवधेयम्-प्रागनुपार्जिता-ऽऽहारकसप्तकस्य जीवस्या-ऽऽहारकसप्तकस्य सत्ताविच्छेदो न द्रष्टव्यः, तस्य तत्सत्कर्माऽभावात् । तदनन्तरमयोगिगुणस्थानकचरमसमये त्रस-बादर-पर्याप्त-सुभगा-ऽऽदेय-यशःकीर्ति-मनुष्यगीमनुष्यायुः-पञ्चेन्द्रियजाति-जिननामकर्मोच्चैर्गोत्रा-ऽन्यतरवेदनीयरूपाणां द्वादशप्रकृतीनां जघन्य Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786