Book Title: Khavag Sedhi
Author(s): Premsuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti

Previous | Next

Page 661
________________ ५०४] खवगसेढी --- - - ... [ गाथा-२६७ "ततोऽप्यूर्ध्वगतिस्तेषां कस्मानास्तीति चेन्मतिः। धर्मास्तिकायस्याभावात् , स हि हेतुर्गः न परः ॥१॥” इति ॥२६५-२६६॥ अयोगिगुणस्थानके प्रतिपादितपदार्थानां यन्त्रकम् । (१) अयोगिगुणस्थानकप्रथमसमय एव व्यवच्छिन्नक्रिया-ऽनिवृत्तिशुक्लध्यानं प्रतिपद्यते । (२) अयोगिगुणस्थानकप्रथमसमय एव शैलेशीमुपगच्छति । (३) शैलेश्याः कालोऽन्तमुहूर्तमात्रः, स च अइउऋल इत्येतदक्षरपञ्चकोच्चारणकालप्रमितो ज्ञेयः । (४) प्रतिसमयमसंख्येयगुणक्रमेण दलिकं निर्जरयति । (५) द्विचरमसमये संस्थानषट्का-ऽस्थिरषट्क-संहननषट्का-गुरुलघुचनुष्क-पञ्चशरीर-पञ्चसंघातन-खगतिद्विक-देवद्विक-बणोदिविंशतिक-पञ्चदशबन्धन-निमोणाङ्गोपाङ्गत्रिक-प्रत्येक-स्थिर-सुस्वर-शुभा-ऽपर्याप्त नीचे र्गोत्रा-ऽन्यतरवेदनीयरूपाणां द्वयशीतिप्रकृतीनां (८२) सत्ताव्यवच्छेदः । (६) चरमसमये मनुष्यत्रिक-त्रसत्रिक-पञ्चेन्द्रियजाति-सुभगा-ऽऽदेय-यशःकीर्ति-तीर्थङ्करनामोच्चैर्गोत्रा-ऽन्य___ तरवेदनीयाख्यानां त्रयोदशप्रकृतीनां (१३) सत्ताविच्छेदः । (७) अन्येषा मतेन द्विचरमसमये मनुष्यानुपूर्वी सत्त्वतो व्यवच्छिद्यते, उदयाभावात । (८) तदनन्तरं समय-प्रदेशान्तरमस्पृशन्नेक समयेन लोकान्तं गच्छति । (९) एकस्मिन्नेव समये देहवियोग-सिध्यमानगति-लोकान्तप्राप्तयः । निश्चयनयापेक्षया तु कर्मक्षय-देहवियो गादि सर्व युगपद् भवति । १०) सिध्यमानस्य गतिः-पूर्वप्रयोगादसङ्गत्वाबन्धच्छेदात्तथागतिपरिणामाच्च। अथ सिद्धानामवस्थितिं निरूपयतिकम्मट्ठगक्खयत्तो लद्धा जीवे हि जेहि अट्ठगुणा। ईसीपब्भाराए उड्ढं ते-ऽवट्ठिआ हुन्ति ॥२६७॥ कर्मा-ऽ-ष्टकक्षयाल्लब्धाः जीवै रष्टगुणाः। ईषत्प्रारभाराया ऊर्च ते-ऽवस्थिता भवन्ति ॥२६७।। इति पदसंस्कारः । 'कम्मट्ट०'इत्यादि, 'कर्माष्टकक्षयाद्' ज्ञानावरण-दर्शनावरण-वेदनीया-ऽऽयुर्नाम-गोत्रा-ऽन्तरायकर्मनाशाद् यैर्जीवः 'लब्धाः' प्राप्ता 'अष्टगुणाः' अनन्तज्ञान-दर्शन-क्षायिकसम्यक्त्व-क्षायिकचारित्राव्याबाधसुखा-ऽक्षयस्थित्यमूर्तानन्तावगाहना-ऽनन्तवीर्याख्याः 'ते' लब्धाऽष्टगुणाः सिद्धा ईपत्प्राग्भाराया ऊर्ध्वमवस्थिताः सन्ति' वर्तन्ते, नेह संसारे प्रच्यवन्ते, कर्मवीजस्य दग्धत्वात् । अथ विस्तरेण व्याख्यायते-मूलकर्मा-ऽपेक्षया मोहनीयकर्म सूक्ष्मसम्परायगुणस्थानकचरमसमये निःशेषतो क्षयमुपगतम् । क्षीणकषायगुणस्थानकचरमसमये ज्ञानावरण-दर्शनावरणा-ऽन्तरायकर्माणि क्षीणानि, अयोगिचरमसमये च नामागोत्र-वेदनीयरूपाणि चत्वारि कर्माणि युगपद् विनष्टानि । उत्तरकर्माऽपेक्षया त्वनन्तानुबन्धिनश्चत्वारो मिथ्यात्व-मिश्र-सम्यक्त्वमोहनीयानि चेति Jain Education International For Private & Personal Use Only www.jainelibrary.org.

Loading...

Page Navigation
1 ... 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786