Book Title: Khavag Sedhi
Author(s): Premsuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti

View full book text
Previous | Next

Page 703
________________ ५४६ ] खबगसेटी 1 गाय- २६७ 1 ज्ञानात् प्रलपितम् यतो न सुरूपत्वादिगुणदर्शनेन स्नेहो भवतीत्यस्माभिरिष्यते, किन्तूपभोगाश्रयेषु तादात्विकसुखाख्यगुणदर्शनात् स्नेहो भवति । विवेकिनां चोपभोगाश्रयेषु दुःखहेतुत्वाख्यमात्यन्तिकं दोषं पश्यतां नोपभोगाश्रयेषु तादात्विकसुखाख्यस्य गुणस्य दर्शनमस्ति । तेन तनबन्धनस्नेहस्य व्यावृत्तेः कथं दोषदर्शनं स्नेहस्य बाधकं न स्यात् ? ननु तद्दोषं पश्यतां यद्यपि तत्कालेऽनुरागिणी मतिश्चलिता, तथापि तत्रासौ नैव सर्वथा विरक्तः, पुनस्तद्गुणलेशदर्शनेनाऽनुरागसम्भवात् । यदुक्तं प्रमाणवार्तिके यद्यप्येकत्र दोषेण तत्क्षणं चलिता मतिः ।। (१।२४१) faredो नैव तत्राऽपि कामोव वनितान्तरे । " इति चेत्, न, अज्ञ एव ह्युपभोगाश्रयेषु तादात्विक दुःखहेतुत्वाख्यस्य दोषस्य दर्शनेन विरक्तः सन् तादात्विकसुखहेतुत्वाख्यस्य गुणस्य दर्शनात् पुनरनुरज्यते । हेयोपादेयतच्चज्ञस्तु दु:खहेतुत्वाख्यस्याssत्यन्तिकदोषस्य दर्शनेन विरक्तो न तादात्विक सुखहेतुत्वाख्यस्य तादात्विकगुणस्य दर्शनात् पुनस्तत्रानुरज्यते, आत्यन्तिकसुखसाधनेषु तस्यात्यन्तिकसुख हेतुत्वाख्यगुणदर्शनसद्भावेन तादात्विकगुणदर्शन विरहात् । ननूपभोगाश्रयेष्विन्द्रियादिषु दुःखहेतुत्वं पश्यन् विरज्यतेऽसौ, तर्ह्यात्मन्यपि विरज्यताम्, दुःखहेतुत्वस्य तत्राऽप्यविशेषात् । तत्राऽविरागे त्वन्यत्रा - ऽपि न विरज्येत, विशेषाऽभावादिति चेत्, उच्यते - किमेतदज्ञमात्मानं प्रतीत्य भण्यते ? उत प्रज्ञम् ? यदि प्रथमपक्षः, तर्हि विरज्यत एव, हेयोपादेयतच्चज्ञानविकलानां दुःखहेतौ स्वात्मनि वैराग्यात् स्वात्मघातादौ प्रवृत्तेः । अथ द्वितीयः पक्षश्चेत्, तर्हि हेयोपादेयतत्त्वज्ञा न विरज्यन्ते, यतस्तैस्तत्र न दुःखहेतुत्वं प्रतिसन्धीयते, किन्त्वान्यन्तिकसुखहेतुत्वमभिसन्धीयते । 'यच्चोक्तं "कायक्लेशस्य कर्मफलत्वेन" इत्यादि, तदप्यचर्विताऽभिधानम्, हिंसादिविरतिरूपव्रतोपवृहस्य कायक्लेशस्य कर्मफलत्वे ऽपि तपस्त्वा ऽविरोधात् । व्रता-विरोधी हि कायक्लेशः कर्मनिजराहेतुत्वात् तपोऽभिधीयते । न चैवं नारकादिकायक्लेशस्य तपस्त्वप्रसङ्ग इति वाच्यम्, तस्य हिंसाद्यवेिशप्रधानतया तपस्त्वविरोधात् । अतः प्रेक्षावतां नारकक्लेशेन समानता मुमुक्षुका क्लेशस्याऽऽपादयितुं न शक्या । यच्च शक्तिसङ्करपक्षे “स्वल्पक्लेशेनैवै० " इत्यादि प्रोक्तम्, तत् सत्यमेव, विचित्रकर्मफलदानसमर्थानां कर्मणां शक्तिसङ्करे सति सूक्ष्ममम्परायचरमसमये क्षीणमोहान्त्यसमये ऽयोगिकेवलिचरमसमये चा-क्लेशतः स्वल्पेनैव ध्यानरूपेण तपसा प्रक्षयाऽभ्युपगमात् । किन्तु निरुक्तशक्तिसङ्करो बहुतरकायक्लेशसाध्य इति युक्तस्तदर्थोऽनेकविधोपवासादिकायक्लेशाद्यनुष्ठानप्रयासः, तमन्तरेण तत्सङ्करानुपपत्तेः । (१) पृ० ५४० पं० २६ । (२) पृ० ५४१ पं० ३ । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786