Book Title: Khavag Sedhi
Author(s): Premsuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti

View full book text
Previous | Next

Page 705
________________ . ५४८] खवगसेढी [गाथा-२६७ कत्वमुररीकर्तव्यम् ,तथा-ऽभ्युपगते च समानकारणसामग्रीजन्यत्वेना-ऽन्त्यचित्क्षण-योगिज्ञानक्षणयोरपि कार्यद्वया-ऽऽरम्भकत्वं कुतो न स्यात् ? स्यादेवेत्यर्थः । अपि च कथं सजातीयकार्ये ऽनुपयोगिनश्चरमज्ञानक्षणस्य विजातीयकार्ये भवत्युपयोगः ? तस्माद् न ज्ञानसन्तानोच्छेदो मोक्षः,किन्त्वनन्तज्ञानादिस्वरूपः। (इति सौगता-ऽभिमतमोक्षस्वरूपप्रतिविधानम् ।) अन्ये पुनराहु:-स्वातन्त्र्यं मोक्ष इति । तत्र यदि स्वातन्त्र्यं प्रभुता, तदा मदः । अथ चेत् कर्मनिवृत्तिः,तदा-ऽस्माकमेव सिद्धान्तः,व्यवहारनयेन कर्मक्षयस्य मोक्षत्वेन प्रतिपादितत्वात् । चार्वाकास्तु-आत्महानं मोक्ष इत्याहुः, तन्न, यतो वीतरागजन्मा-ऽदर्शनन्यायेना-ऽऽ स्मनो नित्यत्वं सिद्धम् , नित्यत्वेन च सिद्धस्या-ऽऽत्मनः सर्वथा हातुमशक्यत्वम् । पर्यायार्थतया त्वात्महानेऽप्यात्महानस्थाऽनुद्देश्यत्वम् । साङ्घयास्तु-प्रकृतिपुरुषविवेकख्यातिबलेनोपरतायां प्रकृतौ पुरुषस्य स्वरूपेणा-ऽवस्थानं मोक्ष इति अवते । एतदुक्तं भवति-साङ्खयमते पञ्चविंशतिस्तच्चानि । यदुक्तं साङ्घयकारिकायामीश्वरकृष्णैः मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त । षोउशकस्तु विकारो न प्रकृतिर्न विकृतिः पुरुषः ॥१"॥ इति । तत्र प्रीत्यत्रीतिविपादात्मकानां लाययोषष्टम्भगौरवधर्माणां परम्परोपकारिणां त्रयाणां गुणानां सच-रजस्तमसां साम्यावस्था प्रकृतिः । यदुक्तं श्रीकपिलेन सूत्रम्-"सवरजस्तमसां साम्यावस्था प्रकृतिः...” इत्यादि (१-६१) । सच्चादिकं त्वोश्वरकृष्णः कारिकायामित्थं व्याख्यातम् सावं लघु प्रकाशकमिष्ठमुपष्टम्भकं चलं च रजः । गुरु वरणकमेव तमः प्रदोपवञ्चा-ऽर्थतो वृत्तिः ॥१॥” इति । प्रकृतिश्व प्रधानमव्यक्तञ्चेत्यनन्तरम् । सा चा-ऽनादिमध्यान्ता-ऽनक्य वा साधारणा-ऽशब्दा-ऽस्पर्शा-ऽरूपा-ऽव्यया । एवंविधा च प्रकृतिः सर्वोत्पत्तिमतां निमित्तमस्ति । यदुक्तं श्रीवाचस्पतिमिश्रेण सातत्त्वकौमुद्याम्-"विश्वस्य कार्यसंघातस्य सा मूलम्, न त्वस्या मूलान्तरमस्ति,अनवस्थाप्रसङ्गात् । नचा-ऽनवस्थायां प्रमाणमस्तीति भावः।'' इति । प्रकृतेवुद्धिरु पयते, सा च महदित्यपरपर्याया । यो-ऽयमध्यवसायो गवादिपु प्रतिपत्तिःएवमेतद् , नाऽन्यथा, गोरेवाऽयम् , नाश्वः, स्थाणुरेवा-ऽयम् , न पुरुष इत्येषा बुद्धिः,तस्यास्त्वष्टी रूपाणि । तत्र धर्म-ज्ञान-वैराग्वैश्वर्याख्यानि चत्वारि साचिकानि, तत्प्रतिपक्षभूतानि त्वधर्मादीनि चत्वारि तामसानि । (१) पृ० ५३६ पं० ९। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786