Book Title: Khavag Sedhi
Author(s): Premsuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti

View full book text
Previous | Next

Page 704
________________ प्रदीपनिर्वाणवादिबौद्धाभिमतमोक्षस्वरूपखण्डनम ] मोक्षस्वरूपविचारः [५४७ अपरे पुनराहुः-प्रदीपनिर्वाणवत् सर्वथा ज्ञानसन्तानोच्छेदो मोक्ष इति । प्रमाणञ्चा-ऽत्र खडिगनो निराश्रवं चित्तं नोपादेयक्षणमारभते; महकारिरहितत्वात् ,तादृशदीपशिखावदिति । इह खडिगशब्देन प्रत्येकबुद्धो ग्राह्यः ।। अथ प्रतिविधीयते-चौद्रमते विनाशस्य निर्हेतुकन्वस्वीकाराद् उक्तस्वरूपमोक्षा-ऽभ्युपगमे मोक्षोपापस्य वैयर्थ्यप्रसङ्गः। यच "खगिनो निराश्रवम्" इत्यायनुमानप्रमाणमुपन्यस्तम् , तदसङ्गतम् , बुद्धचित्तेन हेतोरनेकान्तात् । हितैषित्वा-ऽभावे सतीति विशेषणोपादानाद् न व्यभिचार इति चेत् , न,हितैषित्वा-ऽभावस्या-ऽसिद्धत्वात् । समानं हि हितैपिन्वं खड्गि-सुगतयोरात्म-जगद्विषयम् । ननु जगद्विषयहितैषित्वाऽभावे सतीति विशेषणमुपादेयम् , खडिगनि तु जगद्विषयहितैषित्वाभावोऽस्त्येव, तस्या-ऽऽत्ममात्रविषयहितैषित्वात् , ततश्च न व्यभिचार इति चेत् , मैवम् , यतः सुगतस्य कृतकृत्येषु हितैषित्वानावेन तस्या-ऽपि सकलजगद्विषयहितैषित्वविरहाद् न व्यभिचारस्य परिहारः । कृतकृत्येष्वपि हितैषित्वाऽभ्युपगमे तु कृतकृत्यत्वव्याघातप्रसङ्गः। न च देशतः कृतकृत्येषु सुगतस्य हितैषित्वमस्ति,खडिगनस्तु नेति वाच्यम्,खडिगनोऽप्युत्तरेषु स्वचित्तेषु हितैषित्वस्योपलम्भात् । इत्थं खड्गिनो न हितैषित्वाभावः सिद्धः । नापि चरमत्वविशेषणं देयमिति वाच्यम् , तस्या-ऽप्यसिद्धत्वात् प्रमाणाऽभावाच्च । ननु निराश्रवं खड्गिचित्तं चरमम् , स्वोपादेया-ऽनारम्भकत्वात् , वर्तिस्नेहादिशून्यप्रदीपादिक्षणवदिति चेत् ,न,अन्योन्याश्रया-ऽऽपत्तेः । तथाहि-सिद्धे सति हि तस्य स्वोपादेया-ऽनारम्भकत्वे चरमत्वस्य सिद्धिः, चरमत्वसिद्धौ च स्वोपादेयानारम्भकत्वसिद्धिः ।। किञ्चाऽन्त्यचित्क्षणस्यार्थक्रियाकारित्वविरहेऽवस्तुत्वप्रसङ्गः, 'यत् सत् , तत् करोती'ति म्वीकारात् । अन्त्यचित्क्षणस्या-ऽवस्तुत्वे च तजनकस्योपान्त्यचित्क्षणस्याऽप्यवस्तुत्वप्रसङ्गः, अवस्तुजनकत्वात् , ततस्तज्जनकस्येत्येवं निःशेषचित्सन्तानस्या-ऽवस्तुत्वप्रसक्तिः। न च स्वसन्तानवर्तिचित्क्षणस्या-ऽजनकत्वे-ऽपि सन्तानान्तरवर्तियोगिज्ञानस्य जननाद ना-ऽशेषस्य चित्सन्तानस्या-ऽवस्तुत्वप्रसक्तिरिति वाच्यम् ,रसादेरेककालस्य रूपादेरव्यभिचार्यनुमानाभावप्रसङ्गाद् । एतदुक्तं भवति-यथा-ऽन्त्यचित्क्षणस्य सजातीयकार्या-जनकत्वे-ऽपि विजातीययोगिज्ञानजनकत्वमभ्युपगम्यते, तथैव रूपादेः सजातीयरूपायाख्यकार्या-जनकत्वेऽपि विजातीयरसादिलक्षणकार्यस्य जनकत्वमभ्युपगन्तव्यम् । ततश्च तमस्विन्यामाम्रफलरसा-ऽऽस्वादनाद् रूपानुमानमव्यभिचारि न स्यात् । तथा-ऽनभ्युपगमे तु न विरुध्यते-ऽव्यभिचार्यनुमानम् , एकसामग्रयधीनत्वेन रूपरसयोनियमेन रूपरसलक्षणकार्यद्वयजननात् । स्वीक्रियते च भवता रसा-ऽऽस्वादनादव्यभिचारि रूपानुमानम् । ततश्चैकसामग्रयधीनत्वेन रूपरसयोर्नियमेन कार्यद्वया-ऽऽरम्भ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786