Book Title: Khavag Sedhi
Author(s): Premsuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti

View full book text
Previous | Next

Page 702
________________ बौद्धामिमतमोक्षस्वरूपखण्डनम् ] मोक्षस्वरूपविचारः कर्तुमसमर्थत्वात् । नाऽपि द्वतीयिकः पक्षः, तस्य सन्तानिव्यतिरिक्तस्य सौगतैरनभ्युपगमात् । किञ्चैकान्ता-ऽनित्यत्वे वस्तुनोऽर्थक्रियाकारित्वविरहाद् नैरात्म्यभावना मिथ्यारूपैव । मिथ्याज्ञानस्य च न सौगतैरप्यभ्युपगम्यते निःश्रेयसहेतुत्वम् ।। ___किश्च निरन्वयविनश्वरत्वाभ्युपगमे मोक्षार्थः प्रयासो व्यर्थ एव स्यात् , तथाहि- रागाद्युपरमो हि भवन्मते मोक्षः, तत्र यद्यपरमो नाम रागादिक्षणविनाशः, तदा स निर्हेतुकतया-ऽयत्नसिद्धः, तेन तदर्थो-ऽनुष्ठानादिप्रयासो व्यर्थ एव स्यात् । . अथ रागाद्युपरमो नाम भाविरागादिक्षणस्या-ऽनुत्पादः, स च साध्यो-ऽनुष्ठानादिनेति न वैवर्थ्यमनुष्ठानादीनामिति चेत् , न, उत्पादाभावो ह्यनुत्पादः, तस्याप्यभावरूपत्वात् कथमनुष्ठानादिनोत्पत्तिः ? एतेन सन्तानोच्छेदस्तदनुत्पादो वा मोक्ष इत्यपि प्रत्युक्तम् , क्षणोच्छेदाऽनुत्पादवत् सन्तानोच्छेदाऽनुत्पादयोरप्यभावरूपत्वेन कुतश्चिदुत्पत्तेरनुपपत्तेः । 'यच्च "उपभोगाश्रयत्वेन गृहीतेषु” इत्याद्युक्तम् , तदप्यविचारिताभिधानम् , हेयोपादेयतत्वज्ञा ह्यात्यन्तिकसुखसाधनमुपभोगाश्रयमात्मीयं चा-ऽभिमन्यन्ते, न तादात्विकसुखसाधनम् , ते हि विवेकिन एवं भावयन्ति- इदं राज्यादिकं न सुखाय भवति, यतो-ऽनेके लुण्टाकाः शत्रवो राज्यमानामन्ति, तद्वारणचिन्ता चाहर्निशं भवति । तदेवं राज्यं नैहिकसुखाय भवति । नाऽपि राज्येन पारलौकिकं सुखं भवति, राज्योपभोगनिमित्तका-ऽशुभकर्मोपार्जनेन नरकगत्यादौ गमनात् । ना-ऽपि तरलताराक्षी कामिनी सुखाय भवति, यतः कामिन्याः प्रीतिः स्वपतिं प्रत्यपि मरुद्भूतध्वजाऽश्चलवद् चपला । चपलत्वाच्च प्रीतेर्यस्मिस्तस्या अनुरागः,स्वार्थव्याघाते तस्यैवोपघाताय यतते सा । अपि च दन्तच्छदच्छद्मना पिशितं वितन्य मत्स्यान् इव मनुष्यादीन् नरकादिदुर्गेतिजाले पातयति । तेन स्त्रीरपि नैहिकपारलोकिकसुखाय भवति । मुक्तिरमणी तु रत्नत्रयसाध्या नित्यानन्दमयी, यत्र कदाचिदपि दुःखकणिका न भवतीति । ___ एवं भावयतां तेषां राज्ययोषित्प्रमुखेषु दुःखहेतुषु सुखलेशसाधनत्वसद्भावे-ऽप्यन्यदात्यन्तिकसुखसाधनं रत्नत्रयं पश्यतां कुतस्तेष्वात्मीयबुद्धिः, यतस्ततो निवृत्तिनै स्यात् । ननु तथापि लेशतः सुखहेतुत्वस्याऽपि तत्र सम्भवेन दुःखहेतुत्वे यावता-ऽशेन सुखहेतुता, तावता-ऽशेनेन्द्रियादीन् स्वोपकारकान् मन्यमानस्तेष्वात्मीयबुद्धिं न परित्यजतीति चेत् , न, तेषां सुखलेशसाधनत्वज्ञानेना-ऽन्यस्य चात्यन्तिकसुखसाधनस्य निर्विषाऽन्नस्येव दर्शनेन सुखलेशसाधनस्य विषयुक्तक्षीरादिवत् परित्यागात् । यच्चोक्तम्-"काणत्वादिदोषदर्शनेऽपि" इत्यादि , तदप्यस्मदभिप्रायाऽनभि (१) पृ० ५४० ५० १५ (२) पृ० ५४० पं० २१ । Jain Education International For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786