________________
बौद्धामिमतमोक्षस्वरूपखण्डनम् ]
मोक्षस्वरूपविचारः कर्तुमसमर्थत्वात् । नाऽपि द्वतीयिकः पक्षः, तस्य सन्तानिव्यतिरिक्तस्य सौगतैरनभ्युपगमात् ।
किञ्चैकान्ता-ऽनित्यत्वे वस्तुनोऽर्थक्रियाकारित्वविरहाद् नैरात्म्यभावना मिथ्यारूपैव । मिथ्याज्ञानस्य च न सौगतैरप्यभ्युपगम्यते निःश्रेयसहेतुत्वम् ।। ___किश्च निरन्वयविनश्वरत्वाभ्युपगमे मोक्षार्थः प्रयासो व्यर्थ एव स्यात् , तथाहि- रागाद्युपरमो हि भवन्मते मोक्षः, तत्र यद्यपरमो नाम रागादिक्षणविनाशः, तदा स निर्हेतुकतया-ऽयत्नसिद्धः, तेन तदर्थो-ऽनुष्ठानादिप्रयासो व्यर्थ एव स्यात् । . अथ रागाद्युपरमो नाम भाविरागादिक्षणस्या-ऽनुत्पादः, स च साध्यो-ऽनुष्ठानादिनेति न वैवर्थ्यमनुष्ठानादीनामिति चेत् , न, उत्पादाभावो ह्यनुत्पादः, तस्याप्यभावरूपत्वात् कथमनुष्ठानादिनोत्पत्तिः ? एतेन सन्तानोच्छेदस्तदनुत्पादो वा मोक्ष इत्यपि प्रत्युक्तम् , क्षणोच्छेदाऽनुत्पादवत् सन्तानोच्छेदाऽनुत्पादयोरप्यभावरूपत्वेन कुतश्चिदुत्पत्तेरनुपपत्तेः ।
'यच्च "उपभोगाश्रयत्वेन गृहीतेषु” इत्याद्युक्तम् , तदप्यविचारिताभिधानम् , हेयोपादेयतत्वज्ञा ह्यात्यन्तिकसुखसाधनमुपभोगाश्रयमात्मीयं चा-ऽभिमन्यन्ते, न तादात्विकसुखसाधनम् , ते हि विवेकिन एवं भावयन्ति- इदं राज्यादिकं न सुखाय भवति, यतो-ऽनेके लुण्टाकाः शत्रवो राज्यमानामन्ति, तद्वारणचिन्ता चाहर्निशं भवति । तदेवं राज्यं नैहिकसुखाय भवति । नाऽपि राज्येन पारलौकिकं सुखं भवति, राज्योपभोगनिमित्तका-ऽशुभकर्मोपार्जनेन नरकगत्यादौ गमनात् । ना-ऽपि तरलताराक्षी कामिनी सुखाय भवति, यतः कामिन्याः प्रीतिः स्वपतिं प्रत्यपि मरुद्भूतध्वजाऽश्चलवद् चपला । चपलत्वाच्च प्रीतेर्यस्मिस्तस्या अनुरागः,स्वार्थव्याघाते तस्यैवोपघाताय यतते सा । अपि च दन्तच्छदच्छद्मना पिशितं वितन्य मत्स्यान् इव मनुष्यादीन् नरकादिदुर्गेतिजाले पातयति । तेन स्त्रीरपि नैहिकपारलोकिकसुखाय भवति ।
मुक्तिरमणी तु रत्नत्रयसाध्या नित्यानन्दमयी, यत्र कदाचिदपि दुःखकणिका न भवतीति । ___ एवं भावयतां तेषां राज्ययोषित्प्रमुखेषु दुःखहेतुषु सुखलेशसाधनत्वसद्भावे-ऽप्यन्यदात्यन्तिकसुखसाधनं रत्नत्रयं पश्यतां कुतस्तेष्वात्मीयबुद्धिः, यतस्ततो निवृत्तिनै स्यात् ।
ननु तथापि लेशतः सुखहेतुत्वस्याऽपि तत्र सम्भवेन दुःखहेतुत्वे यावता-ऽशेन सुखहेतुता, तावता-ऽशेनेन्द्रियादीन् स्वोपकारकान् मन्यमानस्तेष्वात्मीयबुद्धिं न परित्यजतीति चेत् , न, तेषां सुखलेशसाधनत्वज्ञानेना-ऽन्यस्य चात्यन्तिकसुखसाधनस्य निर्विषाऽन्नस्येव दर्शनेन सुखलेशसाधनस्य विषयुक्तक्षीरादिवत् परित्यागात् ।
यच्चोक्तम्-"काणत्वादिदोषदर्शनेऽपि" इत्यादि , तदप्यस्मदभिप्रायाऽनभि
(१) पृ० ५४० ५० १५ (२) पृ० ५४० पं० २१ । Jain Education International
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org