________________
५४६ ]
खबगसेटी
1 गाय- २६७
1
ज्ञानात् प्रलपितम् यतो न सुरूपत्वादिगुणदर्शनेन स्नेहो भवतीत्यस्माभिरिष्यते, किन्तूपभोगाश्रयेषु तादात्विकसुखाख्यगुणदर्शनात् स्नेहो भवति । विवेकिनां चोपभोगाश्रयेषु दुःखहेतुत्वाख्यमात्यन्तिकं दोषं पश्यतां नोपभोगाश्रयेषु तादात्विकसुखाख्यस्य गुणस्य दर्शनमस्ति । तेन तनबन्धनस्नेहस्य व्यावृत्तेः कथं दोषदर्शनं स्नेहस्य बाधकं न स्यात् ?
ननु तद्दोषं पश्यतां यद्यपि तत्कालेऽनुरागिणी मतिश्चलिता, तथापि तत्रासौ नैव सर्वथा विरक्तः, पुनस्तद्गुणलेशदर्शनेनाऽनुरागसम्भवात् । यदुक्तं प्रमाणवार्तिके
यद्यप्येकत्र दोषेण तत्क्षणं चलिता मतिः ।। (१।२४१) faredो नैव तत्राऽपि कामोव वनितान्तरे । "
इति चेत्, न, अज्ञ एव ह्युपभोगाश्रयेषु तादात्विक दुःखहेतुत्वाख्यस्य दोषस्य दर्शनेन विरक्तः सन् तादात्विकसुखहेतुत्वाख्यस्य गुणस्य दर्शनात् पुनरनुरज्यते । हेयोपादेयतच्चज्ञस्तु दु:खहेतुत्वाख्यस्याssत्यन्तिकदोषस्य दर्शनेन विरक्तो न तादात्विक सुखहेतुत्वाख्यस्य तादात्विकगुणस्य दर्शनात् पुनस्तत्रानुरज्यते, आत्यन्तिकसुखसाधनेषु तस्यात्यन्तिकसुख हेतुत्वाख्यगुणदर्शनसद्भावेन तादात्विकगुणदर्शन विरहात् ।
ननूपभोगाश्रयेष्विन्द्रियादिषु दुःखहेतुत्वं पश्यन् विरज्यतेऽसौ, तर्ह्यात्मन्यपि विरज्यताम्, दुःखहेतुत्वस्य तत्राऽप्यविशेषात् । तत्राऽविरागे त्वन्यत्रा - ऽपि न विरज्येत, विशेषाऽभावादिति चेत्, उच्यते - किमेतदज्ञमात्मानं प्रतीत्य भण्यते ? उत प्रज्ञम् ? यदि प्रथमपक्षः, तर्हि विरज्यत एव, हेयोपादेयतच्चज्ञानविकलानां दुःखहेतौ स्वात्मनि वैराग्यात् स्वात्मघातादौ प्रवृत्तेः । अथ द्वितीयः पक्षश्चेत्, तर्हि हेयोपादेयतत्त्वज्ञा न विरज्यन्ते, यतस्तैस्तत्र न दुःखहेतुत्वं प्रतिसन्धीयते, किन्त्वान्यन्तिकसुखहेतुत्वमभिसन्धीयते ।
'यच्चोक्तं "कायक्लेशस्य कर्मफलत्वेन" इत्यादि, तदप्यचर्विताऽभिधानम्, हिंसादिविरतिरूपव्रतोपवृहस्य कायक्लेशस्य कर्मफलत्वे ऽपि तपस्त्वा ऽविरोधात् । व्रता-विरोधी हि कायक्लेशः कर्मनिजराहेतुत्वात् तपोऽभिधीयते । न चैवं नारकादिकायक्लेशस्य तपस्त्वप्रसङ्ग इति वाच्यम्, तस्य हिंसाद्यवेिशप्रधानतया तपस्त्वविरोधात् । अतः प्रेक्षावतां नारकक्लेशेन समानता मुमुक्षुका क्लेशस्याऽऽपादयितुं न शक्या ।
यच्च शक्तिसङ्करपक्षे “स्वल्पक्लेशेनैवै० " इत्यादि प्रोक्तम्, तत् सत्यमेव, विचित्रकर्मफलदानसमर्थानां कर्मणां शक्तिसङ्करे सति सूक्ष्ममम्परायचरमसमये क्षीणमोहान्त्यसमये ऽयोगिकेवलिचरमसमये चा-क्लेशतः स्वल्पेनैव ध्यानरूपेण तपसा प्रक्षयाऽभ्युपगमात् । किन्तु निरुक्तशक्तिसङ्करो बहुतरकायक्लेशसाध्य इति युक्तस्तदर्थोऽनेकविधोपवासादिकायक्लेशाद्यनुष्ठानप्रयासः, तमन्तरेण तत्सङ्करानुपपत्तेः ।
(१) पृ० ५४० पं० २६ । (२) पृ० ५४१ पं० ३ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org