________________
प्रदीपनिर्वाणवादिबौद्धाभिमतमोक्षस्वरूपखण्डनम ] मोक्षस्वरूपविचारः
[५४७ अपरे पुनराहुः-प्रदीपनिर्वाणवत् सर्वथा ज्ञानसन्तानोच्छेदो मोक्ष इति । प्रमाणञ्चा-ऽत्र खडिगनो निराश्रवं चित्तं नोपादेयक्षणमारभते; महकारिरहितत्वात् ,तादृशदीपशिखावदिति । इह खडिगशब्देन प्रत्येकबुद्धो ग्राह्यः ।।
अथ प्रतिविधीयते-चौद्रमते विनाशस्य निर्हेतुकन्वस्वीकाराद् उक्तस्वरूपमोक्षा-ऽभ्युपगमे मोक्षोपापस्य वैयर्थ्यप्रसङ्गः।
यच "खगिनो निराश्रवम्" इत्यायनुमानप्रमाणमुपन्यस्तम् , तदसङ्गतम् , बुद्धचित्तेन हेतोरनेकान्तात् । हितैषित्वा-ऽभावे सतीति विशेषणोपादानाद् न व्यभिचार इति चेत् , न,हितैषित्वा-ऽभावस्या-ऽसिद्धत्वात् । समानं हि हितैपिन्वं खड्गि-सुगतयोरात्म-जगद्विषयम् । ननु जगद्विषयहितैषित्वाऽभावे सतीति विशेषणमुपादेयम् , खडिगनि तु जगद्विषयहितैषित्वाभावोऽस्त्येव, तस्या-ऽऽत्ममात्रविषयहितैषित्वात् , ततश्च न व्यभिचार इति चेत् , मैवम् , यतः सुगतस्य कृतकृत्येषु हितैषित्वानावेन तस्या-ऽपि सकलजगद्विषयहितैषित्वविरहाद् न व्यभिचारस्य परिहारः । कृतकृत्येष्वपि हितैषित्वाऽभ्युपगमे तु कृतकृत्यत्वव्याघातप्रसङ्गः। न च देशतः कृतकृत्येषु सुगतस्य हितैषित्वमस्ति,खडिगनस्तु नेति वाच्यम्,खडिगनोऽप्युत्तरेषु स्वचित्तेषु हितैषित्वस्योपलम्भात् । इत्थं खड्गिनो न हितैषित्वाभावः सिद्धः ।
नापि चरमत्वविशेषणं देयमिति वाच्यम् , तस्या-ऽप्यसिद्धत्वात् प्रमाणाऽभावाच्च । ननु निराश्रवं खड्गिचित्तं चरमम् , स्वोपादेया-ऽनारम्भकत्वात् , वर्तिस्नेहादिशून्यप्रदीपादिक्षणवदिति चेत् ,न,अन्योन्याश्रया-ऽऽपत्तेः । तथाहि-सिद्धे सति हि तस्य स्वोपादेया-ऽनारम्भकत्वे चरमत्वस्य सिद्धिः, चरमत्वसिद्धौ च स्वोपादेयानारम्भकत्वसिद्धिः ।।
किञ्चाऽन्त्यचित्क्षणस्यार्थक्रियाकारित्वविरहेऽवस्तुत्वप्रसङ्गः, 'यत् सत् , तत् करोती'ति म्वीकारात् । अन्त्यचित्क्षणस्या-ऽवस्तुत्वे च तजनकस्योपान्त्यचित्क्षणस्याऽप्यवस्तुत्वप्रसङ्गः, अवस्तुजनकत्वात् , ततस्तज्जनकस्येत्येवं निःशेषचित्सन्तानस्या-ऽवस्तुत्वप्रसक्तिः।
न च स्वसन्तानवर्तिचित्क्षणस्या-ऽजनकत्वे-ऽपि सन्तानान्तरवर्तियोगिज्ञानस्य जननाद ना-ऽशेषस्य चित्सन्तानस्या-ऽवस्तुत्वप्रसक्तिरिति वाच्यम् ,रसादेरेककालस्य रूपादेरव्यभिचार्यनुमानाभावप्रसङ्गाद् । एतदुक्तं भवति-यथा-ऽन्त्यचित्क्षणस्य सजातीयकार्या-जनकत्वे-ऽपि विजातीययोगिज्ञानजनकत्वमभ्युपगम्यते, तथैव रूपादेः सजातीयरूपायाख्यकार्या-जनकत्वेऽपि विजातीयरसादिलक्षणकार्यस्य जनकत्वमभ्युपगन्तव्यम् । ततश्च तमस्विन्यामाम्रफलरसा-ऽऽस्वादनाद् रूपानुमानमव्यभिचारि न स्यात् । तथा-ऽनभ्युपगमे तु न विरुध्यते-ऽव्यभिचार्यनुमानम् , एकसामग्रयधीनत्वेन रूपरसयोनियमेन रूपरसलक्षणकार्यद्वयजननात् । स्वीक्रियते च भवता रसा-ऽऽस्वादनादव्यभिचारि रूपानुमानम् । ततश्चैकसामग्रयधीनत्वेन रूपरसयोर्नियमेन कार्यद्वया-ऽऽरम्भ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org