________________
. ५४८]
खवगसेढी
[गाथा-२६७ कत्वमुररीकर्तव्यम् ,तथा-ऽभ्युपगते च समानकारणसामग्रीजन्यत्वेना-ऽन्त्यचित्क्षण-योगिज्ञानक्षणयोरपि कार्यद्वया-ऽऽरम्भकत्वं कुतो न स्यात् ? स्यादेवेत्यर्थः । अपि च कथं सजातीयकार्ये ऽनुपयोगिनश्चरमज्ञानक्षणस्य विजातीयकार्ये भवत्युपयोगः ? तस्माद् न ज्ञानसन्तानोच्छेदो मोक्षः,किन्त्वनन्तज्ञानादिस्वरूपः।
(इति सौगता-ऽभिमतमोक्षस्वरूपप्रतिविधानम् ।) अन्ये पुनराहु:-स्वातन्त्र्यं मोक्ष इति । तत्र यदि स्वातन्त्र्यं प्रभुता, तदा मदः । अथ चेत् कर्मनिवृत्तिः,तदा-ऽस्माकमेव सिद्धान्तः,व्यवहारनयेन कर्मक्षयस्य मोक्षत्वेन प्रतिपादितत्वात् ।
चार्वाकास्तु-आत्महानं मोक्ष इत्याहुः, तन्न, यतो वीतरागजन्मा-ऽदर्शनन्यायेना-ऽऽ स्मनो नित्यत्वं सिद्धम् , नित्यत्वेन च सिद्धस्या-ऽऽत्मनः सर्वथा हातुमशक्यत्वम् । पर्यायार्थतया त्वात्महानेऽप्यात्महानस्थाऽनुद्देश्यत्वम् ।
साङ्घयास्तु-प्रकृतिपुरुषविवेकख्यातिबलेनोपरतायां प्रकृतौ पुरुषस्य स्वरूपेणा-ऽवस्थानं मोक्ष इति अवते । एतदुक्तं भवति-साङ्खयमते पञ्चविंशतिस्तच्चानि । यदुक्तं साङ्घयकारिकायामीश्वरकृष्णैः
मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त । षोउशकस्तु विकारो न प्रकृतिर्न विकृतिः पुरुषः ॥१"॥ इति ।
तत्र प्रीत्यत्रीतिविपादात्मकानां लाययोषष्टम्भगौरवधर्माणां परम्परोपकारिणां त्रयाणां गुणानां सच-रजस्तमसां साम्यावस्था प्रकृतिः । यदुक्तं श्रीकपिलेन सूत्रम्-"सवरजस्तमसां साम्यावस्था प्रकृतिः...” इत्यादि (१-६१) । सच्चादिकं त्वोश्वरकृष्णः कारिकायामित्थं व्याख्यातम्
सावं लघु प्रकाशकमिष्ठमुपष्टम्भकं चलं च रजः ।
गुरु वरणकमेव तमः प्रदोपवञ्चा-ऽर्थतो वृत्तिः ॥१॥” इति । प्रकृतिश्व प्रधानमव्यक्तञ्चेत्यनन्तरम् । सा चा-ऽनादिमध्यान्ता-ऽनक्य वा साधारणा-ऽशब्दा-ऽस्पर्शा-ऽरूपा-ऽव्यया । एवंविधा च प्रकृतिः सर्वोत्पत्तिमतां निमित्तमस्ति । यदुक्तं श्रीवाचस्पतिमिश्रेण सातत्त्वकौमुद्याम्-"विश्वस्य कार्यसंघातस्य सा मूलम्, न त्वस्या मूलान्तरमस्ति,अनवस्थाप्रसङ्गात् । नचा-ऽनवस्थायां प्रमाणमस्तीति भावः।'' इति ।
प्रकृतेवुद्धिरु पयते, सा च महदित्यपरपर्याया । यो-ऽयमध्यवसायो गवादिपु प्रतिपत्तिःएवमेतद् , नाऽन्यथा, गोरेवाऽयम् , नाश्वः, स्थाणुरेवा-ऽयम् , न पुरुष इत्येषा बुद्धिः,तस्यास्त्वष्टी रूपाणि । तत्र धर्म-ज्ञान-वैराग्वैश्वर्याख्यानि चत्वारि साचिकानि, तत्प्रतिपक्षभूतानि त्वधर्मादीनि चत्वारि तामसानि ।
(१) पृ० ५३६ पं० ९।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org