________________
साञ्जयमलेन पञ्चविंशतितत्त्वानि] मोक्षस्वरूपविचारः
[५४९ बुद्धेः कार्यो-ऽहङ्कारः । स चा-ऽभिमानात्मकः, अहं शब्दे, अहं स्पर्शे, अहं गन्धे, अहं रसे, अहमीश्वरः, असौ मया हतः, ससच्चो-ऽहं हनिष्यामीत्यादिप्रत्ययरूपः । अहङ्कारात् पञ्चतन्मात्राण्युभयं चेन्द्रियमिति कार्यद्वयमुत्पद्यते । तत्र पञ्चतन्मात्राणि शब्दतन्मात्रादीन्यविशेषरूपाणि सक्ष्मपर्यायवाच्यानि । शब्दतन्मात्राच्छब्द उपलभ्यते, एवं स्पर्श-रूप-रस-गन्ध-तन्मात्रेभ्यः स्पदिय उपलभ्यन्ते ।
__अथोभयेन्द्रियं बाह्या-ऽभ्यन्तरभेदेनैकादशविधम् । तत्र चक्षुः श्रोत्रं नाणं रसनं त्वगिति पञ्चज्ञानेन्द्रियाणि बावपाणिपादपायूपस्थाः पञ्च कर्मेन्द्रियाणि । एकादशं च मनः ।
पञ्चतन्मात्रेभ्यः पञ्च महाभूतानि समुत्पद्यन्ते । तथाहि-शब्दतन्मात्रादाकाशं शब्दगुणम् , शब्दतन्मात्रसहितात् स्पर्शतन्मात्राद् वायुः शब्दस्पर्शगुणः, शब्दस्पर्शतन्मात्र सहिताद् रूपतन्मात्रात् तेजः शब्दस्पर्शरूपगुणम् ,शब्द-स्पर्श-रूपतन्मात्रसहिताद् रसतन्मात्रादापः शब्द-स्पर्श-रूप-रसगुणाः, शब्द-स्पर्श-रूप-रसतन्मात्रसहिताद् गन्धतन्मात्रात् शब्द-स्पर्श-रूप-रस-गन्धगुणा पृथिवी जायते ।
पुरुपस्त्वमूर्तश्चेतनः साक्षादकर्ता-ऽभोक्ता निष्क्रियो निगुणो नित्यः, यदुक्तं श्रीविज्ञानभिक्षुणा साङ्क्षयप्रवचनभाष्ये-"प्रकृतेः कार्यो महान् महत्तत्त्वम् ,महदादीनां स्वरूपं विशेषश्च वक्ष्यते, महतश्च कार्यो-ऽहङ्कारः । अहङ्कारस्य कार्यद्वयम् , तन्माब्राण्युभयमिन्द्रियश्च। तत्रोभयमिन्द्रियं बाह्या-ऽभ्यन्तरभेदेनैकादशविधम् । तन्मात्राणां कार्याणि पञ्चस्थूलभूतानि । स्थूलशब्दात् तन्मात्राणां सूक्ष्मभूतत्वमभ्युपगतम् । पुरुषस्तु कार्यकारणविलक्षणः ।" इति ।
प्रकृति-पुरुषयोः संयोगस्त्वन्धपगुवत् । यदुक्तम् ईश्वरकृष्णैः साङ्घयकारिकायाम्"पङ्ग्वन्धवदुभयोरपि संयोगस्तत्कृतः सर्गः।” इति । पुरुषस्य च चैतन्यशक्तिविषयपरिच्छेदशन्या, अर्था-ऽध्यवसायस्य बुद्धिव्यापारत्वात् । बुद्धिस्तभयमुखदर्पणाकारा, ततस्तस्यां चैतन्यशक्तिः प्रतिबिम्बते, इन्द्रियद्वारेण च बुद्धौ सुख-दुःखादयो विषया प्रतिसङ्क्रामन्ति । ततः सुख्यहं दुःख्यहमित्युपचारः । आत्मा हि स्वं बुद्धितोऽव्यतिरिक्तं मन्यते । मुख्यतस्तु बुद्धरेव विषयपरिच्छेदः । तथा चाहुः सांख्यतत्त्वकौमुद्यां श्रीवाचस्पतिमिश्रा:-"सर्वो व्यवहर्ता-ऽऽलोच्य मत्वा 'अहमत्रा-ऽधिकृतः' इत्यभिमत्य 'कर्तव्यमेतन्मया' इत्यध्यवस्यति,ततश्च प्रवर्तते इति लोकसिद्धम् । तत्र यो-ऽयं कर्तव्यमिति विनिश्वयश्चितिसन्निधाना-Sऽपन्नचैतन्याया बुद्धः सोऽध्यवसाय:-त्रुडेरसाधारणो व्यापारः।" इति । ___अचेतना-ऽपि बुद्धिश्चिच्छक्तिन्निधानाच्चैतन्दवतीव प्रतिभासते । यदुक्तं साङ्खयकारिकायामीश्वरकृष्णः-"तस्मात्तत्संयोगादचेतनं चेतनाव दिव लिङ्गम् ।” इति । अनुमानप्रमाणमप्यस्ति-अचेतना ज्ञानादयः, उत्पत्तिमच्चादिति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org