________________
५५० ]
खवगसेढी
[गाथा-२६७ यदा तु “दुःखहेतुरियं प्रकृतिः, ना-ऽनया सह संसर्गो युक्तः" इति विवेकख्यातिर्भवति, तदा प्रकृतिर्निवर्तते,कृतकार्यत्वात् । यथा पारिषद्यान् नृत्यं दर्शयित्वा नृत्याद् नर्तकी निवर्तते । यदुक्तं साङ्घयकारिकायाम्-"रङ्गस्य दर्शयित्वा निवर्तते नर्तकी यथा नृत्यात् ।
पुरुषस्य तथा-त्मानं प्रकाश्य विनिवर्तते प्रकृतिः ॥१॥" इति । निवृत्तायां च प्रकृतौ च पुरुषस्य स्वरूपेणा-ऽवस्थानं मोक्ष इति । स्वरूपं च चेतनाशक्तिरपरिणामिन्यप्रतिसंक्रमा प्रतिदर्शितविषयाऽनन्ता च, अतस्तदात्मक एव मुक्तात्मा. न पुनरानन्दादिस्वभावः, तस्य प्रकृतिकार्यत्वात , तस्याश्च निवृत्तत्वात् । ननु पुरुषो निगुणोऽपरिणामी,कथं तस्य मोक्षः, मुचेबन्धनविश्लेषार्थत्वात् , सवासनक्लेशकर्माशयानां च बन्धनसमाम्नातानां पुरुषेऽपरिणामिन्यसम्भवात् ? अत एव न तस्य प्रेत्यभावा-ऽपरनामा संसारोऽप्यस्ति, निष्क्रियत्वादिति चेत् , न, यतः प्रकृतिरेव नानाश्रया सनी वध्यते संसरति मुच्यते चेति, पुरुषे तु बन्ध-मोक्ष संभारा उपचर्यन्ते । यथा जयपराजयौ भृत्यगतावपि स्वामिन्युपचयेते, जयपराजया-ऽऽश्रयेण भृत्यानां तद्भागित्वात् जय-पराजयफलस्य च शोकलाभादेः म्वामिनि सम्बन्धात् , तथा भोगापधर्गयोः प्रकृतिगतयोरपि विवेकाग्रहात् पुरुषे सम्बन्ध इति ।
___ अत्र प्रतिविधीयते-या खलु प्रकृत्यादिप्रक्रिया दर्शिता,सा-ऽनुपपन्नैव । अनुपपात्तस्त्वग्रे दर्शविप्यते । 'यञ्चोक्तम्- “प्रकृति-पुरुषयोः संयोगस्त्वन्धपगुवत् ।" इति, तदयुक्तम् , यतस्तयोः संयोगः केन कृतः, किं प्रकृत्या ? आहोस्विद् आत्मना ? न तावत् प्रकृत्या, तस्याः सर्वगतत्वेन मुक्तात्मनो-ऽपि तत्संयोगप्रसङ्गात् । अथा-ऽऽत्मना, तर्हि स शुद्धचैतन्यस्वरूप आत्मा किमर्थं प्रकृतिमादत्ते ? अथा-ऽस्तु वा केनचित् कृतः संयोगः, किन्त्वसौ संयोगः किं सहेतुको निर्हेतुको वा ? यदि निर्हेतुकः, तदा मुक्तात्मनोऽपि तथाविधसंयोगो बलादापद्यते । अथ सहेतुकश्चेत् ,तर्हि तादृशसंयोगहेतुः किं प्रकृतिरस्ति ? उता-ऽऽत्मा? सांख्येरन्यस्य कस्यचिदप्यनभ्युपगमात् ।
आद्यपक्षे, सा प्रकृतिर्यथा संसात्मनः प्रकृतिसंयोगे हेतुः, तथा मुक्तात्मनो-ऽपि स्यात् , कूटस्थनित्यशुद्धचैतन्यस्वरूपत्वेनोभयोरप्यविशेषात् , नियामका-ऽभावाच्च ।
___ अथ द्वितीयपक्षश्चेत् , तर्हि स आत्मा प्रकृत्यात्मनोः संयोगे हेतुत्वं प्रतिपद्यमानः किं स्वयं प्रकृतिसंयुक्तः सन् हेतुर्भवति ? उत तद्वियुक्तः ? आये तस्या-ऽपि प्रकृतिसंयोगः कथम् ? इत्यनवस्था । द्वितीये पुनः स प्रकृतिरहित आत्मा शुद्धचैतन्यस्वरूपः सन् किमर्थं प्रकृत्यात्मनोः संयोगे हेतुत्वं प्रतिपद्यत इति वक्तव्यम् , यदि निष्प्रयोजनम् , तर्हि मुक्तात्मनोऽपि प्रकृतिसंयोगप्रसङ्गः । यदि सप्रयोजनम् , ताल्लेखनीयं 'किं तत् प्रयोजनम्' इति । ननु पुरुषस्य दिदृक्षासद्भावात् प्रयोजनरूपेण दर्शनमिति चेत् , न, मुक्तानामपि दिदृक्षास्वीकारप्रसङ्गेन दर्शनापत्या तेषामपि प्रकृतिसंयोगप्रसक्तः।
(१) पृ० ५४९ पं० १९ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org