________________
दिक्षायाः खण्डनम् ]
मोक्षस्वरूप विचारः
[ ५५१ . न चानायबद्धस्यैव पुरुषस्य दिदृक्षा भवति,बद्धमुक्तस्य तु बद्धावस्थायादर्शनसंपादनेन दिदृक्षायास्तृप्तत्वात् सा न मुक्तावस्थायां भवतीति न मुक्ता दिदृक्षास्वीकारप्रसङ्गः, अंतो नोक्तापत्तिरिति वाव्यम् , यतोऽनायबद्धस्या-ऽपि पुरुषस्येन्द्रियादिरहितत्वेन न तस्य दिदृक्षा संभवति । अपि च नाऽदृष्टे वस्तुनि दिदृक्षा संभवति, इह तु भवता-ऽदृष्टायां प्रकृतौ दिदृक्षाऽभ्युपगम्यते, तच्चायुक्तम् ।
ननु 'द्रष्टुमिच्छा' दिदृक्षेति कृत्वा सहजैवेह दिदृक्षा, सा चेन्द्रियादिविरहे प्राग्दर्शनविरहे चाऽपि न विरुध्यत इति चेत् , मैवम् , यतो दिदृक्षायाः सहजत्वा-ऽभ्युपगमे आत्मनस्तन्निवृत्तिर्न स्यात् ,आत्मनः स्वाभाविकगुणत्वेन तस्य स्वीकार्यत्वात् । नहि आत्मनः कश्चित् स्वाभाविकगुणो विनिवर्तते । अस्तु वा तन्निवृत्तिः, किन्तु तन्निवृत्त्यभ्युपगमे आत्मनो-ऽपि निवृत्तिप्रसङ्गः, अभिन्नत्वात् ।
ननु दिदृक्षानिवृत्तौ सत्यामप्यात्मनो न निवृत्तिः, भव्यत्ववदिति चेत् , मैवम् , दृष्टान्तदान्तिकयोवैषम्यात् । तथाहि-भव्यत्वं न केवलजीवरूपम् , किन्तु कर्मवद्धजीवरूपम् । दिदृक्षा तु केवलजीपरूपा, अनादिकालतः पुरुषस्य महदादीनां सम्बन्धाभावे-ऽपि दिदृक्षास्वीकारात् । इत्थं दृष्टान्तदाान्तिकयोवैषम्याद् न युज्यते वक्तुम् भव्यत्ववदि' ति । अपि च महदायभावे-ऽबद्धस्य यथा दिदृक्षा स्वीक्रियते, तथा बद्धमुक्तस्याऽपि स्वीकर्तव्या, उभयत्रापि महदायभावस्याविशेषात् ।
- नन्वेस्वभावैव दिदृक्षा, या महदादिविकारदर्शनावं कैवल्यावस्थायां निवर्तत इति चेत्, न, यतः कैवल्यावस्थातः पूर्व दिदृक्षायाः सद्भावः, पश्चाबाऽभावः इत्यत्र किं प्रमाणम् ?
किश्च महादादिनिवृत्तौ सत्यां कैवल्यावस्थायां दिदृक्षाया निवृत्तेरभ्युपगमात् सा प्रकृतिस्वरूपा प्रकृतितुल्या वा स्यात् , पुरुषस्वरूपाऽभ्युपगमे दिदृक्षानिवृत्या पुरुषस्य कूटस्थनित्यत्वव्यापातप्रसङ्गात । एवञ्च प्रकृतिवद् दिदृक्षा पुरुषतो व्यतिरिक्ता सिध्येत् , ततश्च पुरुषस्य दिदृक्षेति वस्तुं न युज्येत ।
किश्च दिदृक्षा प्रकृतिस्वरूपाऽपि न सम्भवति, अबद्धस्य प्रकृतिविरहदशायाममि तदभ्युपगमात् । ना-ऽपि प्रकृतितुल्या काचिदतिरिक्ता, प्रकृति-पुरुषाभ्यामन्यस्य सायरनभ्युपगमात् । तस्मादसत्कल्पा दिदृक्षेति पर्यवस्यति ।
अथा-ऽस्तु कल्पिता दिदृक्षति चेत् ,न, यतः कल्पितायां कथं प्रमाणप्रवृत्तिः १ तदेवं दिहक्षाया अनुपपन्नत्वेन तत्प्रयोज्यस्य दर्शनस्याऽप्यनुपपचेर्न युज्यते पुरुषस्य प्रकृतिसंयोगे हेतुता ।
किश्चायमात्मा प्रकृतिमुपाददानः पूर्वावस्थां किं जह्यानवा ? आद्यपक्षे आत्मनोऽनित्यत्वापत्तिः। द्वितीये तु तदुपादानमेव दुर्घटम् , नहि बाल्यावस्थामपरित्यजन् देवदत्तस्तरुणत्वं प्रतिपद्यते । तन्न साङ्खयमते प्रकृतिसंयोगो घटते ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org