________________
५५१].
स्ववगसेढी
[ गाथा-२६७
अपि च-धपङ्गुवदिति यो दृष्टान्तः प्रोक्तः सोऽपि प्रकृतेऽसङ्गत एव दृष्टान्तदार्शन्तिकयोर्वैषम्यात् । तथाहि - अन्धपवोश्चेतनत्वाद् 'इदमित्थमेवा ऽस्मदिष्टं कार्यं सेत्स्यतीत्यवधार्या-ऽन्योऽन्यापेक्षयोः तयोः प्रवृत्तिर्युक्ता, न तु प्रकृति-पुरुषयोः, प्रकृतेरचेतनत्वात् । एतेन प्रकृत्युपधानविलये स्वरूपेणा - ऽऽत्मनो ऽवस्थानं मोक्ष इत्यपि निरस्तम्, यतः संयोगस्यानुपपन्नत्वाद् वियोगो दुर्घटः, संयोगपूर्वकत्वाद्वियोगस्य ।
'यच्चोक्तं "पुरुषस्य च चैतन्यशक्तिर्विषय परिच्छेदशून्या इति, तदप्य विचारिताभिधानम्, यतश्चिच्छक्तिर्विषयपरिच्छेदशून्या चेति परस्परविरुद्धं वचः । 'चितै संज्ञाने' चेतनम् चित्यते वाऽनयेति भावे करणे वा क्विप्प्रत्ययः । यदि सा स्वपरपरिच्छेदात्मिका नाऽभ्युपगम्यते, तदा सा चिच्छक्तिरेव न स्यात्, घटवत् । न चा-मूर्तायाश्चिच्छक्ते बुद्धौ प्रतिबिम्बोदयद्वारा विषयपरिच्छेदारोपो भवतीति वाच्यम्, प्रतिबिम्बस्य मूर्तधर्मत्वेनाऽमूर्तचिच्छक्तेराकाशवत् प्रतिबिम्वानुपपत्तेः ।
अपि च कर्तृत्व-भोक्तृत्वादिधर्मविरहेण पुरुषस्य सुखदुःखभोगाश्रयत्वव्यवहारो नोपपद्येत । न वाऽऽरोपिततद्द्भोगसम्बन्धेन तथाव्यवहारोपपत्तिः स्यादिति वाच्यम्, आरोपितसम्बन्धार्थमपि तथाभोगानारोपापेक्षया तथाभोगारोपस्य वैलक्षण्यप्रयोजकत्वेन पुरुषस्य नूतनस्वरूपापन्नत्वस्यावश्यकत्वात्, अप्रच्युतप्राचीनरूपस्य च सतः पुरुषस्याऽऽरोपितस्यापि सुखदुःखादिभोगस्य व्यपदेशा नईत्वात् । तत्प्रच्यवने तु प्रावतनरूपत्यागेनोत्तररूपाध्यासितत्वेन परिणामान्तरापच्या कूटस्थनित्यत्वहानिः । न च यथा स्फटिकादीनां तथापरिणाममन्तरेणाऽपि जपाकुसुमादीनामुपधानेन स्फटिकाकादौ रक्तिमाद्यारोपो भवत्येव, तथैव पुरुषस्य परिणाममन्तरेणाऽपि सुखादिभोगशालिप्रकृत्युपधानेन भोगारोपो भविष्यतीति वाच्यम्, स्फटिकादावपि तथापरिणामेनैव रक्तिमारोपसमर्थनात्, अन्यथा कथमन्धोपलादौ नारोपः ? तथापरिणामा ऽभ्युपगमे च बलादायातं चिच्छक्ते रारोपितकर्तृत्वादिधर्मविशिष्टपरिणामिनित्यत्वम् ।
'यच्च “अचेतना-ऽपि” इत्यादि प्रोक्तम्, तदप्ययुक्तम्, न हि चैतन्यवति पुरुषे प्रतिसङ्क्रान्ते दर्पणस्य चैतन्या-ऽवाप्तिः, चैतन्या ऽचैतन्ययोरपरावर्तिस्वभावत्वेन शक्रेणाऽप्यन्यथा कर्तु - मशक्यत्वात् ।
किञ्च शरीरादेरप्येवं चेतनत्वप्रतीतिप्रसङ्गः, चेतनत्वसंसर्गस्याऽविशेषात् । न च शरीराद्यसम्भवी बुद्ध्यादेरात्मना संसर्गविशेषो ऽस्तीति वाच्यम्, यतः कथञ्चित्तादात्म्यं विना को ऽन्यः संसर्गविशेषः ? आत्माऽह ष्टकृतकत्वादिविशेषस्य च शरीरादावपि भावात् । अपि च " अचेतना ऽपि चैतन्यवतीव प्रतिभासते" इत्यत्रेव शब्देनाऽऽरोपो ध्वन्यते । न चाऽऽरोप उपपद्यते, तस्य बाधज्ञान
(१) प्र० ५४९ पं० २० । (२) पृ० ५४९ पं० २९ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org