________________
साङ्खचाभिमतमोक्षस्वरूपखण्डनम् ]
मोक्षस्वरूपविचारः
[ ५५३
निवर्त्यत्वात् । तथाहि -साङ्ख्यमते विवेकख्यातिदशायां बाधज्ञानस्य सच्चेनारोपनिवृत्तिः स्यात्, तथा च सति तत्र प्रारब्धकर्माधीनसुखदुःखभोगे चैतन्यसंवदेनानुपपत्तिः स्यात् ।
'यच्च "अचेतना ज्ञानादय उत्पत्तिमत्त्वादित्यनुमानप्रमाणमुपन्यस्तम्, तदप्यसुन्दरम्, यतो हेतोरनुभवेन सह व्यभिचारः, तस्य चेतनत्वेऽप्युत्पत्तिमत्त्वात् । न चाऽनुभवः कथमुत्पत्तिमान् ? इति वाच्यम्, परापेक्षत्वाद् युद्धादिवत् । न च परापेक्षत्वमसिद्धमिति वाच्यम् "बुद्धयध्यवसितमर्थं पुरुषश्चेतयते। " इति वचनोपलम्भात् । बुद्धयध्यवसितार्थानपेक्षत्वे त्वनुभवस्य सर्वत्र सर्वदा पुसो-नुभवप्रसङ्गेन सर्वस्य सर्वदर्शित्वापत्तेस्तदुपाया - ऽनुष्ठानवैयर्थ्यप्रसङ्गः ।
यदि पुनरनुभवसामान्यं नित्यमनुत्पत्तिमदेवेति मतम्, तदा ज्ञानादिसामान्यमपि नित्यत्वादनुत्पत्तिमद् भवेत् ततश्चाऽसिद्ध उत्पत्तिमन्वादिति हेतुः ।
,
अथ ज्ञानादिविशेषाणामुत्पत्तिमच्चात् प्रोक्तहेतुर्ना -ऽसिद्ध इति चेत्, न, यतस्तुल्यन्यायेनाऽनुभवविशेषाणामप्युत्पत्तिमत्त्वं सिद्धयति, ततश्चोत्पत्तिमत्वहेतुरनैकान्तिकः कथं न स्यात् ? स्यादेवे - त्यर्थः । न चाऽनुभवस्य विशेषा न सन्तीति वाच्यम्, वस्तुत्वविरोधात् । तद्यथा-नाऽनुभवो वस्तु, विशेषकूटर हितत्वात् खरविषाणवत् । न चोक्तहेतुरात्मना व्यभिचारी, तस्याऽपि सामान्यविशेषात्मकत्वात् ।
9
अपि चोत्पत्तिमचहेतुः कालात्ययापदिष्टः, ज्ञानादीनां स्वसंवेदनप्रत्यक्षत्वेन चेतनत्वप्रसिद्धेः प्रत्यक्षवाधितपक्षा-ऽनन्तरं प्रयुक्तत्वात् । तदेवं नाऽचेतना ज्ञानादयः, स्वसंविदितत्वाद्, अनुभववत् । ततश्च चिच्छक्तेरेव विषयाध्यवसायो घटते, न तु तद्व्यतिरिक्ताया जडरूपाया अन्यस्याः कस्याश्चित् ।
अत एव धर्माद्यष्टरूपताऽपि बुद्धेरित्यप्यभिधानमात्रमेव, धर्मादीनामात्मधर्मत्वात् ।
यच “ एवंविधा च प्रकृतिः सर्वोत्पत्तिमतां निमित्त" मित्यादि प्रोक्तम्, तदुक्तवता भवता संज्ञान्तरेण कर्मैव प्रतिपन्नम्, तस्यैवैवंविधत्वादचेतनत्वाच्च ।
'यच्च "बुद्ध: कार्योऽहङ्कारः" इत्यादि प्रोक्तम्, तदप्यसङ्गतम्, अहङ्कारस्याऽभिमानात्मकत्वेनाऽऽत्मधर्मस्या-ऽचेतनत उत्पादाऽयोगात् ।
यच्च "वाक्-पाणि-पाद- पायूपस्थाः पञ्च कर्मेन्द्रियाणि' इत्यभिहितम्, तदप्यपेशलम्, इतरा-ऽसाध्य कार्यकारित्वविरहात् । तद्यथा - परप्रतिपादना - ऽऽदान- विहरण - मलोत्सर्गादयोऽन्यैरपिशरीरावयवैरङ्गुल्यादिभिः साधयितुं शक्यन्ते, ततश्च न केवलं वागादिभिः साध्यन्ते । तेन वागादीनामिन्द्रियत्वव्यपदेशो नोचितः । यदीतरा - ऽसाध्य कार्यकारित्वविरहेऽपि वागादीनामिन्द्रियत्वं परि
1
(१) पृ० ५४९ पं० ३१ (२) पृ० ५४८ पं० २४ । (३) पृ० ५४९ पं० २ । (४) पृ० ५४९ पं० ८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org